एषा विशेषविहिताभिहिता तृतीया यानंतरीत्य विधवाभिरुदीरितोच्चैः
अक्षयतृतीयाव्रतवर्णनम् वैशाखस्य सितामेकां तृतीयां शृणु पाण्डव
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम्
आदौ कृतयुगस्येयं युगादिस्तेन कथ्यते
शाकले नगरे कश्चिद्धर्मनामाभवद्वणिक्
तेन श्रुतं वाच्यमानं तृतीया रोहिणी पुरा
तस्यां यद्दीयते किंञ्चित्तत्सर्वं चाक्षयं भवेत्
गृहमागत्य करकान्सान्नानुदकसंयुतान्
यवगोधूमचणकसक्तुदध्यौदनं तथा
शुचिः शुद्धेन मनसा ब्राह्मणेभ्यो ददौ वणिक्
तावत्स च स्थितः सत्त्वे मत्वा सर्वं विनश्वरम् 4.30.
जगाम पञ्चत्वमसौ वासुदेवं स्मरन्मुहुः
बभूव चा क्षया तस्य समृद्धिर्धर्मनिर्जिता
ददौ गोभूहिरण्यादि दानान्यस्यामहर्निशम्
तथाप्यक्षयमेवास्य क्षयं याति न तद्धनम्
एतद्व्रतं मयाख्यातं श्रूयतामत्र यो विधिः
ग्रैष्मिकं सर्वमेवात्र सस्यदानं प्रशस्यते
यद्यदिष्टतमं चान्यत्तद्देयमविशंकया
अनाख्येयं न मे किञ्चिदस्ति स्वस्त्यस्तु तेऽनघ
अस्यां तिथौ क्षयमुपैति हुतं न दत्तं तेनाक्षया च मुनिभिः कथिता तृतीया
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽक्षय्यतृती याव्रतवर्णनं नाम त्रिंशत्तमोऽध्यायः
अङ्गारकचतुर्थीव्रतवर्णनम् पापापहं बहुफलं सुकरं सूपवासकम्
ऋद्धिबुद्धिकरं स्वर्ग्यं यशस्यं सर्वकामदम्
शृणु पार्थ परं गुह्यं यन्मया कथितं न च
शिवयोरतिसंहर्षाद्रक्तबिंदुश्च्युतः क्षितौ
तस्माज्जातः कुमारोऽसौ रक्तो रक्तसमुद्भवः
शिवांगाद्रभसा जात स्तेनांगारक उच्यते
सौभाग्यारोग्यकृद्यस्मात्तस्मादंगारकः स्मृतः
तं पूजयति यत्नेन नारी वाऽनन्यमानसा रूपं सौभाग्यसंपन्नं नरनारीमनोहरम्
युधिष्ठिर उवाच सहोममंत्रसंस्थानं साधिवासविधानतः