धूपदीपादिभिः पुष्पैर्यथायोग्यैः समार्चयत्
हंभाशब्देन महता विललाप भयातुरा
शीघ्रं हत्वा तु शार्दूलं मुमोद नृपतिस्तदा
भूपतिं प्राह नम्रात्मा धर्मज्ञं चंद्रशेखरम् १
प्रह्रादस्यैव शापेन व्याघ्रदेहत्वमागतः
नृपतिर्गृहमागत्य सुष्वाप परया मुदा
नृपोक्तः स ययौ तत्र यत्र कामावरूथिनी
अस्या मूर्तिप्रभावेन राजासौ मोहमाप्स्यति
तथा मत्वा स नृपतिर्न विवाहमथाकरोत्
बलभद्रस्य सा पत्नी बभूव वरवर्णिनी
मोहितः कामबाणेन मूर्च्छितः पतितो भुवि
शिबिकां चैव संस्थाप्य सभायां च समैरयत्
कस्येयं सुन्दरी भार्या कुतो जाता महोत्तमा
ममेयं सुन्दरी नारी रत्नदत्तस्य सा सुता
मम दासस्य या पत्नी त्वद्योग्या भूपते सदा
इत्युक्तः क्रोधताम्राक्षो भूपतिस्तमुवाच ह
गृह्णामि यदि तां देवीं नरके यमकिंकराः
इत्युक्त्वा भूपतिस्तूर्णं विरहाग्निप्रपीडितः
इत्युक्त्वा स तु वैतालो नृपं प्राह शृणुष्व भोः
सेनापतिस्तु तत्रैव भस्मसादभवत्क्षणात्
स्वर्गं गतास्तु ते सर्वे कस्य पुण्याधिकं मतम्
मरणं किंकरस्यैव योग्यं भूपतिहेतवे
दत्ता यत्किंकरेणैव सुंदरी नृपहेतवे
जित्वा कामं तथा पाल्यं धर्मं तस्मान्नृपेऽधिकम्
शृणु भूप महाभाग कथां तव मनोरमाम्
उज्जयिन्यां महाभाग महासेनो नृपोऽभवेत्
गुणाकरस्तस्य सुतो मद्यमांसपरायणः
बांधवैः स परित्यक्तो बभ्राम वसुधातले
कपर्दी नाम तं योगी कपालान्नैरपूजयत्
तदातिथ्यं तदर्थं स यक्षिणीं समुपाह्वयत्