कुसुंभबीजान्संप्राश्य त्यक्त्वा कामं स्वपेन्निशि
कार्तिकस्य तृतीयायां स्वाहानाम्नीं प्रपूजयेत्
स्वप्याद्रात्रौ जितक्रोधा प्राश्य कुंकुमकेशरान्
तथा कृष्णतृतीयायां स्वधानाम्नीं प्रपूजयेत्
प्रातः संभोज्य मिथुनं नक्तव्रतफलं लभेत् 4.29.
शुक्लपक्षे तृतीयायां सोपवासा निरामया
मंडलं च ततो लिख्य नवनाभं वरप्रदम्
ताभ्यां नेत्रेषु दातव्यं मौक्तिकं नीलमेव च
उपवीतं तु देवस्य देव्या हारं तथो रसि
चतुःसमेन वालभ्य पुष्पैर्धूपैरथार्च्चयेत्
ततोऽपराजितां नाम देवीं तत्रैव पुजयेत्
गीतवाद्योत्सवैर्हृद्यैर्वीणामंगलपाठकैः
तूलीगंडकसंयुक्ते पर्यंकेत्यंतशोभिते
वितानध्वजमालालिकिंकिणीदर्प्पणान्वितम्
तस्याग्रे भोजयेद्भक्त्या स्वशक्त्या मिथुनानि च 4.29.
ततो दत्त्वाऽक्षतान्हस्ते तांबूलं विनिवेदयेत्
उच्छिष्टं शोधयित्वा तु पुनः प्रोक्ष्य समन्ततः
शृंगाभ्यां दत्तकनकां राजतखुरसंयुताम्
घण्टाभरणशोभाढ्यां देवदेव्यग्रसंस्थिताम् त्रिधा प्रदक्षिणीकृत्य गुरोः सर्वं निवेदयेत्
उमामहेश्वरं देवमवियोगं सुरार्चितम्
प्रणम्य शिरसा भूमौ क्षमस्वेति गुरुं वदेत् यः प्रकुर्यात्पुमान्स्त्री वा तस्य पुण्यफलं शृणु
गन्धर्वयक्षलोकांश्च विद्याधरमहोरगान्
भुक्त्वा भोगानशेषांश्च एकविंशत्कुलान्वितः
तत्र भुक्त्वा महाभोगान्स भुंक्ते शिववद्बहून्
भुक्त्वा भोगान्यदा भूतः कदाचित्तपसः क्षयात 4.29.
स्त्री वा समाचरेद्या तु महादेवी तु जायते त्रैलोक्यपतिरुद्रेणसा भुंक्ते सहिता तथा
मनुर्द्देव्या यथामह्या शच्या शक्रो यथासुखम्
सावित्री ब्रह्मणो यद्वद्गंगा तोयनिधेर्यथा
अथ जन्मन्यहोन्यस्मिन्व्रतमेतत्कृतं भवेत् योजनायुतसाहस्रे सुरूपा मण्डले भवेत्
एत्तते निखिलं प्रोक्तमानंतर्यव्रतं मया