प्रभाते शक्तितो दद्याद्भोजनं मिथुनस्य तु
तद्वत्कृष्णतृतीयायां रुद्राणीं नामभिर्यजेत्
पिण्याकं प्राश यित्वा तु स्वप्याद्रात्रौ विमत्सरा
भाद्रे शुक्लतृतीयायां पूजयेत हिमाद्रिजाम्
गन्धोदकं ततः प्राश्य सखीभिः सहिता स्वपेत् 4.29.
तद्वत्कृष्णतृतीयायां दुर्गां दैवीं समर्चयेत्
प्राशयित्वा तु गोमूत्रं स्वप्याच्छांतेन चेतसा
मासि चाश्वयुजे भक्त्या देवीं नारायणीं यजेत्
प्राशयेच्चंदनं रक्तं स्वप्याच्च गतमत्सरा
तथा कृष्णतृतीयायां स्वस्ति नाम प्रपूज येत्
कुसुंभबीजान्संप्राश्य त्यक्त्वा कामं स्वपेन्निशि
कार्तिकस्य तृतीयायां स्वाहानाम्नीं प्रपूजयेत्
स्वप्याद्रात्रौ जितक्रोधा प्राश्य कुंकुमकेशरान्
तथा कृष्णतृतीयायां स्वधानाम्नीं प्रपूजयेत्
प्रातः संभोज्य मिथुनं नक्तव्रतफलं लभेत् 4.29.
शुक्लपक्षे तृतीयायां सोपवासा निरामया
मंडलं च ततो लिख्य नवनाभं वरप्रदम्
ताभ्यां नेत्रेषु दातव्यं मौक्तिकं नीलमेव च
उपवीतं तु देवस्य देव्या हारं तथो रसि
चतुःसमेन वालभ्य पुष्पैर्धूपैरथार्च्चयेत्
ततोऽपराजितां नाम देवीं तत्रैव पुजयेत्
गीतवाद्योत्सवैर्हृद्यैर्वीणामंगलपाठकैः
तूलीगंडकसंयुक्ते पर्यंकेत्यंतशोभिते
वितानध्वजमालालिकिंकिणीदर्प्पणान्वितम्
तस्याग्रे भोजयेद्भक्त्या स्वशक्त्या मिथुनानि च 4.29.
ततो दत्त्वाऽक्षतान्हस्ते तांबूलं विनिवेदयेत्
उच्छिष्टं शोधयित्वा तु पुनः प्रोक्ष्य समन्ततः
शृंगाभ्यां दत्तकनकां राजतखुरसंयुताम्
घण्टाभरणशोभाढ्यां देवदेव्यग्रसंस्थिताम् त्रिधा प्रदक्षिणीकृत्य गुरोः सर्वं निवेदयेत्
उमामहेश्वरं देवमवियोगं सुरार्चितम्