संप्राश्य दधि रात्रौ च स्वप्याद्विगतमत्सरा
अश्वमेधमवाप्नोति समग्रं नात्र संशयः
जपेत्कात्यायनीं नाम नालि केरं निवेदयेत् दांपत्यं सुभगं भोज्यं गोमेधफलमाप्नुयात्
पौषस्यादितृतीयायां सोपवासा जितेन्द्रिया
स्वप्यात्प्राश्य घृतं रात्रौ त्यक्त्वा कामं तदग्रतः 4.29.
एवं कृष्णतृतीयायां पार्वतीमिति पूजयेत् दांपत्यं विविधं भोज्यम श्वमेधफलं लभेत्
माघस्य शुक्लपक्षे तु तृतीयायामुपोषितः
ततः कुशोदकं प्राश्य स्वप्याद्भूमौ जितेन्द्रिया क्षमाप्यांते नमस्कृत्य इति स्वर्णफलं लभेत्
पुनरेतत्ततो माघे कृष्णपक्षे शुचिव्रता
मधु प्राश्य स्वपेद्रात्रौ कामक्रोधविवर्जिता
एवं वै फाल्गुने मासि सोपवासा शुचिव्रता
सुप्राश्य शर्करां चाथ स्वप्याद्रात्रौ विमत्सरा
पुनः कृष्णतृतीयायां फाल्गुनस्यैव भारत
सोदकांस्तंडुलान्दत्त्वा स्वप्याद्भूमौ मनस्विनी
चैत्रस्यादितृतीयायां शुचिर्भूता जितेन्द्रिया 4.29.
बिल्वपत्रं ततः प्राश्य स्वप्याद्ध्यान परायणा प्रणिपत्य क्षमाप्यैवं राजसूयफलं लभेत्
पुनः कृष्णतृतीयायां चैत्रे सम्यगुपोषितः
पूपकानि निवेद्याथ कुर्याद्रात्रौ प्रजागरम्
एवं वैशाखमासे तु सोपवासा जितेन्द्रिया
श्रीखंडं चंदनं लिप्त्वा स्वप्याद्देव्यग्रतो भुवि
तथा कृष्णतृतीयायां सोपवासा विमत्सरा
सुराज्यं यावकं दत्त्वा तिलान्भुंजन्स्वपेन्निशि
ज्येष्ठे सिततृतीयायां ह्युपवासकृतां वरा संप्राश्यामलकं रात्रौ गौरीं ध्यात्वा सुखं स्वपेत्
ततः प्रातः समुत्थाय दंपती रूपशालिनौ
पुनः कृष्णतृतीयायां सोपवासा सुवासिनी 4.29.
प्राशयेत्पंचगव्यञ्च स्वप्याद्देव्यग्रतस्ततः
आषाढमासे संप्राप्ते पूजयेच्च यशोधनम् प्रभाते मिथुनं भोज्यं कन्यादानफलं लभेत्
तथा कृष्णतृतीयायां कूष्मांडीं शक्तितो यजेत्
कुशोदकं च संप्राश्य स्वप्याद्रात्रौ जितेन्द्रिया
श्रावणे सोपवासा च चंडां घण्टां प्रपूजयेत्