श्रीकृष्ण उवाच तया ब्राह्मणवाक्येन सर्वमेतत्कृतं पुरा
भुक्त्वा भोगान्महीपृष्ठे दत्त्वा दानं यथेप्सया
कालेन समनुप्राप्ता मरणं मनुजेश्वर अवंतिसुन्दरी नाम देवानामपि सुन्दरी
यदि वक्त्रसहस्राणां सहस्रं स्यात्कथंचन
चैत्रतृतीयामाहात्म्यात्सा बभूव प्रभावती
लब्धाब्धिसंभवा यद्वत्कृष्णेनाक्लिष्टकर्मणा
यददाद्ब्राह्मणेभ्यः सा भूषणं कटकादिकम्
पुत्रांश्च जनयामास विष्णुशक्रपराक्रमान् 4.28.
एवं रूपं महत्प्राप्य सौभाग्यं पुत्रसंपदम्
शक्रादिलोकपा लानां भवनेषु यथाक्रमम्
एवं यान्यापि कुरुते नारी व्रतमिदं शुभम्
न दुर्भगा कुले तस्याः काचिद्भवति कन्यका
न दारिद्र्यं गृहे तस्मिन्न व्याधिरुपजायते ५५ अन्याश्च याश्चरिष्यंति ब्राह्मणानुमते व्रतम्
ताः सर्वसुखसंपन्ना अविपन्नमनोरथाः
माघे महार्घ्यमणिमंडितपादपीठां चैत्रे विचित्रकुसुमोत्करचर्चितांगीम्
अनन्तरतृतीयाव्रतवर्णनम् आनन्तर्यव्रतं ब्रूहि तृतीयोभयसंयुतम्
हिताय सर्वभूतानां ललनानां विशेषतः
श्रीकृष्ण उवाच ब्रह्मविष्णुमहेशाद्यैर्यथोक्तं सुरसत्तमैः
आदौ मार्गशिरे मासि व्रतमेतत्समाचरेत्
उमां देवीं समभ्यर्च्य पुष्पगंधादिभिः क्रमात्
संप्राश्य दधि रात्रौ च स्वप्याद्विगतमत्सरा
अश्वमेधमवाप्नोति समग्रं नात्र संशयः
जपेत्कात्यायनीं नाम नालि केरं निवेदयेत् दांपत्यं सुभगं भोज्यं गोमेधफलमाप्नुयात्
पौषस्यादितृतीयायां सोपवासा जितेन्द्रिया
स्वप्यात्प्राश्य घृतं रात्रौ त्यक्त्वा कामं तदग्रतः 4.29.
एवं कृष्णतृतीयायां पार्वतीमिति पूजयेत् दांपत्यं विविधं भोज्यम श्वमेधफलं लभेत्
माघस्य शुक्लपक्षे तु तृतीयायामुपोषितः
ततः कुशोदकं प्राश्य स्वप्याद्भूमौ जितेन्द्रिया क्षमाप्यांते नमस्कृत्य इति स्वर्णफलं लभेत्
पुनरेतत्ततो माघे कृष्णपक्षे शुचिव्रता
मधु प्राश्य स्वपेद्रात्रौ कामक्रोधविवर्जिता