प्रवाललंबितव्रातामंतर्दिव्यवितानिकाम्
पुरतः कारयेत्कुण्डं हस्तमात्रं समेखलम्
देवान्पितॄन्समभ्यर्च्य ततो देवीगृहं व्रजेत्
तत्कालप्रभवैः पुष्पैर्गन्धालि बकुलाकुलैः
एवं संपूज्य विधिवत्सद्धूपेनाधिवासयेत् उमा सती समुद्दिष्टं नामाष्टकमिदं मया
लड्डुकैः खण्डवेष्टैश्च गुडकैः सिंहकेसरैः
घृतपक्वैर्बहुविधैः सुपक्वफलकल्पितैः १. इक्षुदंडानैक्षवं च हरिद्रार्द्रान्पुरो न्यसेत्
नारिकेलानामलकान्मातुलुंगान्सदाडिमान् 4.28.
कालोद्भवानि चान्यानि फलानि विनिवेदयेत्
नेत्रांजनशलाकाश्च नखरे चनकानि च
शंखतूर्यनिनादेन गीतमङ्गलनिस्वनैः
ततोऽस्तसमये भानोः कुमार्यः करकैर्नवैः
यामेयामे गते स्नानं देवीपूजनमेव च
पद्मासनस्थिता साध्वी तेनैवार्द्रेण वाससा
काश्चिद्वाद्यंति संहृष्टाः काश्चिन्नृत्यंति हर्षिताः
गीततालानु संबद्धमनुद्धतमनाकुलम्
नृत्येन हृष्यति हरो गौरी गीतेन तुष्यति
सुवासिनीभ्यस्तांबूलं कुंकुमं कुसुमानि च 4.28.
नटैर्विटैर्भटैश्चैव तथा प्रेक्षणकोत्सवैः
एवं प्रभातसमये स्नात्वा संपूज्य पार्वतीम्
तोलयेत्सा तथासीनं गुडेन लवणेन च
पर्वतानामपिच्छेदैः केचिदिच्छंति सूरयः
लवणेन सहात्मा हि तोल्यते च गुडेन वा
एवं देवीं प्रणम्यार्यां क्षमाप्य गृहमाविशेत्
अन्नं च मधुरप्रायं भोजयित्वा सुवासिनीः
यच्च देव्याः पुरो दत्तं नैवे द्यादि तदिच्छया
ततो दद्याद्गृहस्थेभ्यः कृतकृत्या भवेत्तदा
सप्तधान्यस्वरूपां च शूर्पे संपूजयेदुमाम् 4.28.
माघमासतृतीयायां विशेषः श्रूयतामिति तोलयित्वा कुंदपुष्पैः पूजयेत्तत्सुतामिति
एतेन कारणेनोक्ता चतुर्थी कुन्दसंज्ञया जयया मुनिकन्यानां यत्पुरा समुदाहृतम्