किमहं भक्तिरहितस्त्रयीमार्गातिगो नरः
भवान्सर्वार्थानुकूलः सर्वज्ञ इति मे मतिः व्रतं चैतज्जगत्ख्यातं नाख्यातं तेन ते मया
यद्यस्ति श्रवणे बुद्धिः श्रूयतां पाण्डुनन्दन
जया च विजया चैव उमायाः परिचारिके
भवत्यौ सर्वदा देव्याश्चित्तवृत्तिविदौ किल पूजिता तुष्टिमभ्येति मंत्रै कैश्च वरानने
तासां तद्वचनं श्रुत्वा जया प्रोवाच सादरम् व्रतमुत्सवसंयुक्तं नरनारी मनोरमम्
चैत्रे सिततृतीयायां दन्तधावनपूर्वकम्
सकुंकुमं सतांबूलं सिन्दूरं रक्तवाससी
विधवा याति मार्गेण कुमारी तु यदृच्छया 4.28.
नेत्रपट्टपटीवस्त्रैर्वस्त्रमण्डपिकां शुभाम्
प्रवाललंबितव्रातामंतर्दिव्यवितानिकाम्
पुरतः कारयेत्कुण्डं हस्तमात्रं समेखलम्
देवान्पितॄन्समभ्यर्च्य ततो देवीगृहं व्रजेत्
तत्कालप्रभवैः पुष्पैर्गन्धालि बकुलाकुलैः
एवं संपूज्य विधिवत्सद्धूपेनाधिवासयेत् उमा सती समुद्दिष्टं नामाष्टकमिदं मया
लड्डुकैः खण्डवेष्टैश्च गुडकैः सिंहकेसरैः
घृतपक्वैर्बहुविधैः सुपक्वफलकल्पितैः १. इक्षुदंडानैक्षवं च हरिद्रार्द्रान्पुरो न्यसेत्
नारिकेलानामलकान्मातुलुंगान्सदाडिमान् 4.28.
कालोद्भवानि चान्यानि फलानि विनिवेदयेत्
नेत्रांजनशलाकाश्च नखरे चनकानि च
शंखतूर्यनिनादेन गीतमङ्गलनिस्वनैः
ततोऽस्तसमये भानोः कुमार्यः करकैर्नवैः
यामेयामे गते स्नानं देवीपूजनमेव च
पद्मासनस्थिता साध्वी तेनैवार्द्रेण वाससा
काश्चिद्वाद्यंति संहृष्टाः काश्चिन्नृत्यंति हर्षिताः
गीततालानु संबद्धमनुद्धतमनाकुलम्
नृत्येन हृष्यति हरो गौरी गीतेन तुष्यति
सुवासिनीभ्यस्तांबूलं कुंकुमं कुसुमानि च 4.28.
नटैर्विटैर्भटैश्चैव तथा प्रेक्षणकोत्सवैः
एवं प्रभातसमये स्नात्वा संपूज्य पार्वतीम्