बाहुं च परिरंभिण्यै नृत्यशीलाय वै हरेः
देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः ।। 4.27.
नेत्रं मदनवासिन्यै विश्वधाम्ने त्रिशूलिने
देव्यै ललाटमिंद्राण्यै हव्यवाहाय वै विभोः
विश्वकायै विश्वमुख्यै विश्वपादकरौ शिवौ
एवं संपूज्य विधिवदग्रतः शिवयोः पुनः
शङ्खचक्रे सकटके स्वस्तिकं वर्द्ध मानकम्
शृंगोदकं बिल्वपत्रं वारि कुंभान्वितं तथा
तिलोदकं च संप्राप्य स्वप्यान्मार्गशिरादिषु
सर्वत्र शुक्लपुष्पाणि प्रशस्तानि शिवार्चने
गौरी मे प्रीयतां नित्यमघनाशाय मंगला
संवत्सरांते लवणं गुडकुंभं समर्जितम् उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम् ।। 4.27.
प्रस्तरावरणं शय्यां सविश्रामां निवेदयेत्
आर्द्रानन्दकरी नाम तृतीयैषा सनातनी
इह लोके यमानंदं प्राप्नोति धनसंचयात्
नारी वा कुरुते या तु कुमारी विधवा तथा
प्रतिपक्षमुपोष्यैवं मंत्रार्चनविधानतः
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः
आनंददां सकलदुःखहरां तृतीयां या स्त्री करोति विधिवत्सधवाधवा च
चैत्रभाद्रपदमाघवर्णनम् तृतीयात्रयमेतन्मे कृष्ण कस्मान्न कीर्तितम्
किमहं भक्तिरहितस्त्रयीमार्गातिगो नरः
भवान्सर्वार्थानुकूलः सर्वज्ञ इति मे मतिः व्रतं चैतज्जगत्ख्यातं नाख्यातं तेन ते मया
यद्यस्ति श्रवणे बुद्धिः श्रूयतां पाण्डुनन्दन
जया च विजया चैव उमायाः परिचारिके
भवत्यौ सर्वदा देव्याश्चित्तवृत्तिविदौ किल पूजिता तुष्टिमभ्येति मंत्रै कैश्च वरानने
तासां तद्वचनं श्रुत्वा जया प्रोवाच सादरम् व्रतमुत्सवसंयुक्तं नरनारी मनोरमम्
चैत्रे सिततृतीयायां दन्तधावनपूर्वकम्
सकुंकुमं सतांबूलं सिन्दूरं रक्तवाससी
विधवा याति मार्गेण कुमारी तु यदृच्छया 4.28.
नेत्रपट्टपटीवस्त्रैर्वस्त्रमण्डपिकां शुभाम्