व्रतांते करका पूर्णा एतेषां मासिमासि च
तंडुलाञ्छ्वेतवर्णांश्च संयावमधुपूरिकाः
दध्यन्नं षड्विधं चैव भिंडयः शाकवर्तिकाः
कुमुदा माधवी गौरी रंभा भद्रा जया शिवा 4.26.
क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत्
उपवासी भवेन्नित्यमशक्तो दक्षिणे करे
कृत्वा तु कांचनीं गोधां पंचरत्नसमन्विताम्
तद्वद्गोमिथुनं सर्वं सुवर्णास्यं सितं परम्
अनेन विधिना यश्च रसकल्याणिनीव्रतम्
भवार्बुदसहस्रं तु न दुःखी जायते क्वचित्
नारी वा कुरुते या तु कुमारी वा युधिष्ठिर सौभाग्यारोग्यसंपन्ना गौरीलोके महीयते
इति पठति य इत्थं यः शृणोति प्रसंगात्सकलकलुषमुक्तः पार्वतीलोकमेति
आर्द्रानन्दकरीव्रतवर्णनम् लोकेषु नाम्ना विख्यातामार्द्रानंदकरीमिमाम्
यदा शुक्लतृतीयायामाषाढर्क्षं भवेत्क्वचित्
दर्भगंधोदकैः स्नानं तदा सम्यक्समाचरेत्
भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगंधिभिः
वासुदेव्यै नमः पादौ शंकराय नमो हरेः
रंभायै पूजयेदूरू शिवाय च पिनाकिनः
माधव्यै च तथा नाभिमथ शंभोर्भवाय वै
उत्कंठिन्यै नमः कंठं नीलकंठाय वै हरेः
बाहुं च परिरंभिण्यै नृत्यशीलाय वै हरेः
देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः ।। 4.27.
नेत्रं मदनवासिन्यै विश्वधाम्ने त्रिशूलिने
देव्यै ललाटमिंद्राण्यै हव्यवाहाय वै विभोः
विश्वकायै विश्वमुख्यै विश्वपादकरौ शिवौ
एवं संपूज्य विधिवदग्रतः शिवयोः पुनः
शङ्खचक्रे सकटके स्वस्तिकं वर्द्ध मानकम्
शृंगोदकं बिल्वपत्रं वारि कुंभान्वितं तथा
तिलोदकं च संप्राप्य स्वप्यान्मार्गशिरादिषु
सर्वत्र शुक्लपुष्पाणि प्रशस्तानि शिवार्चने