गर्भिणी सूतिका नक्तं कुमारी चाथ रोगयुक्
इमामनंतफलदां तृतीयां यः समाचरेत्
वित्तहीनोऽपि कुर्वीत वर्षत्रयमुपोषणैः
नारी वा कुरुते या तु कुमारी विधवा तथा 4.26.
इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिंदुलोकसंस्थः
श्रीकृष्ण उवाच अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम्
माघमासे तु संप्राप्य तृतीयां शुक्लपाक्षिकीम्
स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च
दक्षिणांगानि संपूज्य ततो वामानि पूजयेत्
जंघे जानू तथा सत्यै तथोरश्च श्रियै नमः
स्तनौ मदनवासिन्यै कुमुदायै च कंधरम्
भ्रूललाटे च रुद्राण्यै शंकरायै तथालकान्
नेत्रं चक्रावधारिण्यै पुष्ट्यै च वदनं पुनः
रंभायै वामबाहुं च विशोकायै नमः परम् 4.26.
एवं संपूज्य विधिवद्द्विजदांपत्यमर्चयेत्
सलड्डुकं वारिकुंभं शुक्लांबरयुगं ततम्
प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम्
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः
यारकं ज्येष्ठमासे तु आषाढे जीरकं तथा
घृतमश्वयुजे तद्वद्वर्जयेद्या च मज्जिका
व्रतांते करका पूर्णा एतेषां मासिमासि च
तंडुलाञ्छ्वेतवर्णांश्च संयावमधुपूरिकाः
दध्यन्नं षड्विधं चैव भिंडयः शाकवर्तिकाः
कुमुदा माधवी गौरी रंभा भद्रा जया शिवा 4.26.
क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत्
उपवासी भवेन्नित्यमशक्तो दक्षिणे करे
कृत्वा तु कांचनीं गोधां पंचरत्नसमन्विताम्
तद्वद्गोमिथुनं सर्वं सुवर्णास्यं सितं परम्
अनेन विधिना यश्च रसकल्याणिनीव्रतम्
भवार्बुदसहस्रं तु न दुःखी जायते क्वचित्