पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम्
विन्यसेत्पश्चिमे सौम्यां ततो मदनवासिनीम्
लक्ष्मीं स्वाहां स्वधां तुष्टिं मंगलां कुमुदां सतीम् कुसुमैरक्षतैः शुभ्रैर्नमस्कारेण विन्यसेत्
गीतमंगलघोषं च कारयित्वा सुवासिनीः 4.26.
सिंदूरं स्नानचूर्णं च तासां शिरसि पातयेत्
नभस्ये पूजयेद्गौरीमुत्पलैरसितैस्तथा
कुन्दपुष्पैर्मार्गशिरे पौषे वै कुंकुमेन च
जात्या तु फाल्गुने पूज्या पार्वती पांडुनंदन
ज्येष्ठे कमलमंदारैराषाढे चंपकांबुजैः
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशो दकम् पंचगव्यं तथा बिल्वं प्राशयेत्क्रमशः सदा
एतद्भाद्रपदाद्यं तु प्राशनं समुदाहृतम्
ब्राह्मणं ब्राह्मणीं चैव शिवं गौरीं प्रकल्प्य च पुंसे पीतांबरे दत्त्वा स्त्रियै कौसुंभवाससी
निष्पावाजाजिलवणमिक्षुदंडं गुणान्वितम्
यथा न देवदेवेशस्त्वां परित्यज्य गच्छति 4.26.
कुमुदा विमलानंता भवानी वसुधा शिवा
नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत्
मिथुनानि चतुर्विंशत्तदर्द्धं सकृदर्च्चयेत्
तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम्
उक्तानंततृतीयैषा सदानंतफलप्रदा
न चैनां वित्तशाठ्येन कदाचिदपि लंघयेत्
गर्भिणी सूतिका नक्तं कुमारी चाथ रोगयुक्
इमामनंतफलदां तृतीयां यः समाचरेत्
वित्तहीनोऽपि कुर्वीत वर्षत्रयमुपोषणैः
नारी वा कुरुते या तु कुमारी विधवा तथा 4.26.
इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिंदुलोकसंस्थः
श्रीकृष्ण उवाच अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम्
माघमासे तु संप्राप्य तृतीयां शुक्लपाक्षिकीम्
स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च
दक्षिणांगानि संपूज्य ततो वामानि पूजयेत्
जंघे जानू तथा सत्यै तथोरश्च श्रियै नमः