क्षीरमाश्वयुजे तद्वत्कार्तिके पृष दाज्यकम् 4.25.
माघे कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुने
वासुदेवी तथा गौरी मङ्गला कमला सती
मल्लिकाशोककमलकदंबोत्पलमालति सिंदुवारं च मासेषु सर्वेषु क्रमशः स्मृतम्
जपाकुसुंभकुसुमं मालती शतपत्रिका
एवं संवत्सरं यावदुपोष्य विधिवन्नरः व्रतांते शयनं दद्यात्सर्वोपस्करसंयुतम्
उमामहेश्वरं हैमं वृषभं च गवा सह
अन्यान्यपि यथाशक्ति मिधुनान्यंबरादिभिः वित्तशाठ्येन रहितः पूजयेद्गतविस्मयः
एवं करोति यः सम्यक्सौभाम्यशयनव्रतम्
सौभाग्यारोग्यरूपायुर्वस्त्रालंकारभूषणैः
यस्तु द्वादश वर्षाणि सौभाग्यशयनं व्रतम् पूज्यमानो भवेत्सम्य ग्यावत्कल्पायुतत्रयम् ।। 4.25.
नारी वा कुरुते या तु कुमारी वा नरेश्वर
शृणुयादपि यश्चैतत्प्रदद्यादथ वा मतिम्
इदमिह मदनेन पूर्वमिष्टं चरितमिदं शशबिंदुना व्रतं वै
यानीह दत्तानि पुरा नरेंद्रैर्दानानि धर्मार्थयशस्कराणि
रसकल्याणिनीव्रतवर्णनम् युधिष्ठिर उवाच भुक्तिमुक्तिप्रदं किञ्चिद्व्रतं ब्रूहि जनार्दन
श्रीकृष्ण उवाच यदुमायै पुरा देव उवाचासुरसूदनः
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्ति फलप्रदम्
शृणुष्वावहितो भूत्वा सर्वपापप्रणाशनम्
शुक्लपक्षतृतीयायां स्नातः सद्गौरसर्षपैः दधिचंदनसंमिश्रं ललाटे तिलकं न्यसेत्
सौभाग्यारोग्यकृद्यत्स्यात्सदा च ललिताप्रियम्
धारयेदथ वा रक्तपीतानि कुसुमानि च
देव्यर्चां पंचगव्येन ततः क्षीरेण केवलम्
पूजयेच्छुक्लपुष्पैश्च फलैर्नानाविधैरपि
शुक्लाक्षतैस्तिलैरर्च्यां ललितां यः सदार्चयेत् 4.26.
ऊरू मांगल्यकारिण्यै कामदेव्यै तथा कटिम्
करौ सौभाग्यवासिन्यै बाहू शशिमुखश्रियै
गौर्य्यै नमस्तथा नासां सुनेत्रायै च लोचने
नमो गौर्यै नमः सृष्ट्यै नमः कांत्यै नमः श्रियै
एवं संपूज्य विधिवदग्रतः पद्म मालिखेत्