कोटनीं शूलिनं कुक्षौ मंगलां शर्वसंयुताम् 4.25.
अनंतां त्रिपुरघ्रं च पूजयेत्करसंपुटे
सर्वात्मना च सहितां ललितां मस्तकोपरि पूजयेद्भक्तिसहितो गन्धमाल्यानुलेपनैः
एवमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः
तवराजेक्षुलवणं कुंकुमं च तथाष्टमम्
एवं निवेद्य तत्सर्वं शिवयोः प्रीयतामिति
ततः प्रातः समुत्थाय कृतप्राण जयः शुचिः सौभाग्याष्टकसंयुक्तं सौवर्णचरणद्वयम्
प्रीयतामत्र ललिता ब्राह्मणाय निवे दयेत्
प्राशने नाममंत्रे च विशेषोऽयं निबोध मे
ज्येष्ठे मंदारपुष्पं च बिल्वपत्रं शुचौ स्मृंतम्
क्षीरमाश्वयुजे तद्वत्कार्तिके पृष दाज्यकम् 4.25.
माघे कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुने
वासुदेवी तथा गौरी मङ्गला कमला सती
मल्लिकाशोककमलकदंबोत्पलमालति सिंदुवारं च मासेषु सर्वेषु क्रमशः स्मृतम्
जपाकुसुंभकुसुमं मालती शतपत्रिका
एवं संवत्सरं यावदुपोष्य विधिवन्नरः व्रतांते शयनं दद्यात्सर्वोपस्करसंयुतम्
उमामहेश्वरं हैमं वृषभं च गवा सह
अन्यान्यपि यथाशक्ति मिधुनान्यंबरादिभिः वित्तशाठ्येन रहितः पूजयेद्गतविस्मयः
एवं करोति यः सम्यक्सौभाम्यशयनव्रतम्
सौभाग्यारोग्यरूपायुर्वस्त्रालंकारभूषणैः
यस्तु द्वादश वर्षाणि सौभाग्यशयनं व्रतम् पूज्यमानो भवेत्सम्य ग्यावत्कल्पायुतत्रयम् ।। 4.25.
नारी वा कुरुते या तु कुमारी वा नरेश्वर
शृणुयादपि यश्चैतत्प्रदद्यादथ वा मतिम्
इदमिह मदनेन पूर्वमिष्टं चरितमिदं शशबिंदुना व्रतं वै
यानीह दत्तानि पुरा नरेंद्रैर्दानानि धर्मार्थयशस्कराणि
रसकल्याणिनीव्रतवर्णनम् युधिष्ठिर उवाच भुक्तिमुक्तिप्रदं किञ्चिद्व्रतं ब्रूहि जनार्दन
श्रीकृष्ण उवाच यदुमायै पुरा देव उवाचासुरसूदनः
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्ति फलप्रदम्
शृणुष्वावहितो भूत्वा सर्वपापप्रणाशनम्
शुक्लपक्षतृतीयायां स्नातः सद्गौरसर्षपैः दधिचंदनसंमिश्रं ललाटे तिलकं न्यसेत्