उमामहेश्वरं हैमं समाप्ते कारयेन्नृप
अशनं च शुभं दद्याच्छ्वेतच्छत्रं कमंडलुम्
पीतयज्ञोपवीतैश्च दीपनेत्रैः समुज्ज्वलैः
उमामहेश्वरं स्थाप्य पूजयित्वा यथाविधि
घृतपक्वैश्च नैवेद्यैर्दीपमालाभिरेव च 4.24.
जीरकैर्लवणैश्चैव कुसुम्भैः कुंकुमैस्तथा पूजयेद्देवदेवेशं क्षमयेत्तदनंतरम्
शंखवादित्रनिर्घोषैर्वेदध्वनिसमन्वितैः
पूर्वोक्तफलभागी स्यात्सर्वदेवैश्च पूज्यते
तदंते शिवसायुज्यं प्राप्नोतीह न संशयः
योऽहं सा च स्मृता गौरी या गौरी स महेश्वरः
एषा हिमाद्रिदुहितुर्दयिता तृतीया रंभाविधानमलभद्भुवि तत्कृतेति
सौभाग्याष्टकवर्णनम् सौभाग्यशयनं नाम यत्पुराणविदो विदुः
पुरा दग्धेषु लोकेषु भूर्भुवःस्वर्महादिषु
तच्च वैकुण्ठमासाद्य विष्णोर्वक्षस्थले स्थितम्
अहंकारावृते लोके प्रधानपुरुषान्विते
पिंगाकारा समुद्भूता ज्वाला वक्षस्थली तदा
यद्वक्षस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्
उत्क्षिप्तमन्तरिक्षस्थं ब्रह्मपुत्रेण धीमता
बलं तेजो महज्जातं दक्षस्य परमेष्ठिनः
इक्षवस्तवराजं च निष्पावाजाजिधान्यकम् लवणं चाष्टमं तत्र सौभाग्याष्टकमुच्यते
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा तथा लोकानतीत्य लालित्याल्ललिता तेन चोच्यते ।। 4.25.
त्रैलोक्यसुंदरीमेनामुपयेमे पिनाकधृक्
आराध्य तामुमां भक्त्या स्त्री राजन्किन्न विन्दति
यद्विधानं च तत्सर्वं जगन्नाथ वदस्व मे
शुक्लपक्षस्य पूर्वाह्ने तिलैः स्नानं समाचरेत्
तस्मिन्नहनि सा देवी किल विश्वात्मना सती
तथा सहैव देवेशं तृतीयायामथार्चयेत्
पञ्चगव्येनानुमासं तथा गंधोदकेन च
पाटलां शंभुसहितां पादयोस्तु प्रपूजयेत्
भद्रेश्वरेण सहितां विजयां जानुनोर्युगे