शिवलोके वसेत्तावद्यावदिन्द्राश्चतुर्द्दश
यदा मानुष्यमायाति जायते विमले कुले
धनधान्यसमायुक्ते सुवर्णमणिमंडिते
वियोगं नैव सा पश्येद्भर्तृमित्रसुतादिकैः
हैमीमुमां रजतपिण्डमयं महेशं रौप्ये सुरूपवृषभे च समास्थितौ तौ
रम्भातृतीयाव्रतवर्णनम् पुत्रसौभाग्यफलदां सर्वामयनिवारिणीम्
सर्वदुष्टहरां पुण्यां सर्वसौख्यप्रदां तथा
शंकरेण पुरा प्रोक्ता पार्वत्याः प्रियकाम्यया
मार्गशीर्षे शुभे मासि तृती यायां नराधिप उपवासस्य नियमं गृह्णीयाद्भक्तिभाविता
देवि संवत्सरं यावत्तृतीयायामुपो षिता तदविघ्नेन मे यातु प्रसादात्तव पार्वति
एवं संकल्प्य विधिवत्कौंतेय कृतनिश्चयः
नद्यां तडागे वाप्यां वा गृहे वा नियतात्मवान्
प्रभाते भोजयेद्विद्वाञ्छिवभक्तान्विशेषतः गौरीश्वरं यथाशक्ति भोजयेत्प्रयता सती
अनेन विधिना राजन्यः कुर्यान्मासि पौषके
हिरण्यं जीरकं चैव स्वशक्त्या दापयेत्ततः 4.24.
वाजपेयातिरात्राभ्यां फलं प्राप्नोत्यसंशयः
माघे मासि तृतीयायां सुदेवीं नाम पूजयेत्
प्रातः कुसुंभं कनकं दद्या च्छक्त्या द्विजातिषु
गौरीति फाल्गुने नाम गोक्षीरं प्राशयेन्निशि
कडुहुंडं सकनकं तेभ्यो दत्त्वा विसर्जयेत्
चैत्रे मासि विशालाक्षीं पूजयेद्भक्तितत्परा सौभाग्यं महदाप्नोति विशालाक्ष्याः प्रसादतः
वैशाखस्य तृतीयायां श्रीमुखीं नाम पूजयेत्
शिवभक्तान्द्विजान्प्रातर्भोजयित्वा यथेप्सितम् अनेन विधिना दत्त्वा पुत्रानाप्नोति शोभनान्
आषाढे माधवीं नत्वा प्राश्नीयाच्च तिलोदकम् सकांचनः शुभांल्लोकान्प्राप्नोति हि न संशयः
श्रावणे तु श्रियं पूज्य पिबेद्गोशृंगजं जलम् सर्वलोकेश्वरो भूत्वा सर्वकामानवाप्नुयात् ।। 4.24.
भाद्रे चैव तृतीयायां हरतालीति पूज येत् इह लोके सुखं भुक्त्वा चांते शिवपुरं ब्रजेत्
आश्विने तु तृतीयायां गिरिपुत्रीति पूजयेत्
दक्षिणा चापि निर्दिष्टा कनकं च सचन्दनम्
पद्मोद्भवा कार्तिके च पञ्चगव्यं पिबेत्ततः
सपत्नीकाञ्छुभाचारान्माल्यवस्त्र विभूषणैः