जीमूतवाहनश्चैव पूजार्थे मंदिरं ययौ
तस्या दर्शनमात्रेण कामबाणेन पीडितः
जीमूतवाहन उवाच मदनाय नमस्तुभ्यं कृष्णपुत्राय ते नमः
पंचबाणाय कामाय प्रद्युम्नाय नमोनमः
तदा प्रसन्नो भगवान्मकरध्वजदेवता
विश्वावसुरिति ख्यातस्तस्य भूपस्य वै सुतः
नरं नारायणं नत्वा गरुडोत्तुंगमाययौ
रुरोद बहुधा तत्र यत्र जीमूतवाहनः
वृद्धामाश्वास्य पप्रच्छ केनेदं दुःखमागतम्
तद्वियोगेन दुःखार्ता विलपामि महाकुला 3.2.15.
गरुडोऽपि गृहीत्वा तं नभोमार्गमुपागमत्
कमलाक्षी तु वियति स्थितं गरुडभक्षितम्
तदा तु गरुडस्त्रस्तस्तत्रागत्य त्वरान्वितः
स होवाच प्रभो मेद्य वचः शृणु महामते
तस्याः पुत्रस्य रक्षार्थं संप्राप्तोऽहं तवांतिकम्
तद्व्यालस्यैव दुःखेन दुःखितः शत्रुमाप्तवान्
संत्यज्य मानुषं दिव्यं कुर्वाहारं महामते
जीमूतवाहनायैव विद्याधरसुताय च
त्वं तु विद्याधरपुरे प्राप्य राज्यं महोत्तमम्
इत्युक्त्वान्तर्दधौ देवः स पित्रा राज्यमाप्तवान् 3.2.15.
इत्युक्त्वा स तु वैतालो नृपतिं प्राह नम्रधीः
नृपस्यैवोपकारं च स्वभावो विधिना कृतः
पतिव्रताप्रभावेन जीवदानेन भूपतेः
निर्भयः शंखचूडस्तु स्वशत्रुं प्रति चागमत्
चंद्रशेखरभूपस्य नगरी दक्षिणे स्थिता
रत्नदत्तोवसद्वैश्यो धर्मज्ञो धनधान्यवान्
तद्रूपमुत्तमं दृष्ट्वा स वैश्यो भूपतिं प्रति
तां गृहाण कृपासिंधो त्वद्योग्या विधिनिर्मिता
मंत्रिणं विदुरं प्राह त्वं च गच्छ महामते
इत्युक्त्वा स ययौ गेहं भूपतिश्चंद्रशेखरः। श्यामला नाम तत्पत्नी ज्ञात्वा राजानमागतम्