वस्त्रेण वेष्टयित्वा च गन्धैर्धूपैस्तथार्चयेत् 4.22.
व्रतिनां ब्राह्मणानां च दम्पतीनां च भारत
चत्वारिंशत्तथाष्टौ च कुम्भांच्छत्रमुपानहौ
दीनान्धदुःखितानां च तद्दिने वा निवारितम्
न्यूनाधिकं च कर्तव्यं स्ववित्तपरि माणतः
अवियोगकरं चैतद्रूपसौभाग्यवित्तदम्
सम्यक्पुराणपतितं व्रतचर्यमेतत्तत्त्वं चराचरगुरोर्हृदयंगमायाः
उमामहेश्वरव्रतवर्णनम् सौभाग्यं जायतेऽतीव पुत्राश्च बहवः शुभाः
धनं धान्यं सुवर्णं च वस्त्राणि विविधानि च
यत्कृत्वा सुभगा नारी बह्वपत्या च जायते
धनं धान्यं हिरण्यं च दासीदासादिकं वहु
उमामहेश्वरं नाम अप्सरोभिः पुरा कृतम्
रूपिण्या रंभया चैव सीतयाऽहल्यया तथा
एताभिश्चरितं पार्थ व्रतं सर्वव्रतोत्तमम्
मर्त्यलोके स्त्रियो याश्च दुर्भगारूपवर्जिताः
तासां हितार्थं पार्वत्या उमामहेश्वरं व्रतम्
पूर्वं मार्गशिरे मासि नारी धर्मपरायणा 4.23.
स्नात्वा संपूज्य ललितां हरकायार्धवासिनीम् कृत्वा देवीस्तर्पयित्वा इदं वाक्यमुदीरयेत्
नमो नमस्ते देवेश उमादेहार्द्धधारक
हृदि कृत्वा शिवं देवीं जपेद्यावद्गृहं गता
वामपार्श्वे उमां देवीं दक्षिणे तु महेश्वरम् नैवेद्यं तु यथाशक्ति घृतपक्वं निवेदयेत्
कारयेद्वैश्वदेवं तु तिलाज्येन सुसंस्कृतम्
एवं द्वादशमासांस्तु पूजयित्वा महेश्वरम्
शिवं रूप्यमयं कृत्वा उमां हैममयीं तथा
चन्दनेन शिवं चर्च्य कुंकुमेन च पार्वतीम्
वेष्टयेच्छुक्लवस्त्रेण शिवं रक्तेन पार्वतीम्
भोजयेच्छिवभक्तांश्च ब्राह्मणान्वेदपारगान् 4.23.
ततः प्रदक्षिणीकृत्य इदमुच्चारयेद्बुधः व्रतेनानेन सुप्रीतौ भवेतां मम सर्वदा
एवमुक्त्वा जितक्रोधे ब्राह्मणे वेदपारगे
इदं कृत्वा व्रतं नारी महेशार्पितमानसा