विधिवत्पूजयित्वा तु शंकरं कीर्तयत्स्वपेत्
भोजयेन्मृष्टमन्नाद्यं शिवभक्त्या द्विजोत्तमान् 4.22.
प्रतिमासं प्रकुर्वीत विधिना तेन संयता
नामानि च प्रवक्ष्यामि प्रतिमासं क्रमाच्छणु
एवं पौषे तु संप्राप्ते गिरिशं पार्वतीं तथा
एतत्पारणमुद्दिष्टं मार्गादौ मार्गगोचरम्
भवं चैव भवानीं च मासि माघे प्रपूजयेत्
ललितां शंकरं देवं चैत्रे संपूजयेत्ततः
ज्येष्ठे वीरेश्वरं देवमेकवीरासमन्वितम्
श्रीकंठं श्रावणे देवं सुतान्वितमथार्चयेत् ईशानं कार्त्तिके मासि शिवादेवीयुतं यजेत्
जप्यध्यानार्चनायैव नामान्येतानि सुव्रत
प्रतिमासं तु पुष्पाणि यानि पूजासु योजयेत् 4.22.
आदौ नीलोत्पलं योज्यं तदभावेऽपराण्यपि
करवीरं बिल्वपत्रं किंशुकं कुब्जमल्लिका
एतान्युक्तक्रमेणैव मासेषु द्वादशस्वपि
वत्सरांते वितानं च धूपोत्क्षेपं सघंटिकम्
स्नापयित्वा च लिप्त्वा च सौवर्णं मूर्ध्नि पङ्कजम्
नैवेद्यं शक्तितो दत्वा नत्त्वा च विधिवच्छिवम्
तत्र गत्वा त्रिकोणश्च चतुरस्रं च कारयेत्
व्रतिनो भोजयेत्पश्चाद्वादशैव द्विजोत्तमान्
वस्त्रेण वेष्टयित्वा च गन्धैर्धूपैस्तथार्चयेत् 4.22.
व्रतिनां ब्राह्मणानां च दम्पतीनां च भारत
चत्वारिंशत्तथाष्टौ च कुम्भांच्छत्रमुपानहौ
दीनान्धदुःखितानां च तद्दिने वा निवारितम्
न्यूनाधिकं च कर्तव्यं स्ववित्तपरि माणतः
अवियोगकरं चैतद्रूपसौभाग्यवित्तदम्
सम्यक्पुराणपतितं व्रतचर्यमेतत्तत्त्वं चराचरगुरोर्हृदयंगमायाः
उमामहेश्वरव्रतवर्णनम् सौभाग्यं जायतेऽतीव पुत्राश्च बहवः शुभाः
धनं धान्यं सुवर्णं च वस्त्राणि विविधानि च
यत्कृत्वा सुभगा नारी बह्वपत्या च जायते