शिरसि प्रक्षिपेत्तोयं ध्यायंती मनसेप्सितम्
भद्रेश्वरा ततो देवी ललिता शंकरप्रिया
सौभाग्यारोग्यपुत्रार्थमर्थार्थं हरवल्लभे
दत्त्वा हिरण्यं तत्तस्मै प्राश्नीयाच्च कुशोदकम्
ध्यायमाना उमां दैवीं हरिते यवसंस्तरे
यथाशक्ति द्विजान्पूज्य ततो भुञ्जीत वाग्यता
द्वितीये पार्वतीनाम तृतीये शंकरप्रिया
दक्षस्य दुहिता षष्ठे मैनाकी सप्तमे स्मृता
दशमे मासि विख्याता देवि सौभाग्यदायिनी ।।4.21.
कुशोदकं पयः सर्प्पिर्गोमूत्रं गोमय फलम्
पञ्चगव्यं तथा शाकः प्राशनानि क्रमादमी
ददाति श्रद्धयैतानि वाचके ब्राह्मणोत्तमे
दत्तैरेभिः सूर्यस्था त्वं सूर्यस्था तुष्यसि प्रिये
ओङ्कारपूर्वको देवि नमस्कारांत ईरितः
तुष्टा त्वभीप्सितान्कामान्ददासि प्रीतिपूर्वकम्
सहितं भार्ययाभ्यर्च्य गंधपुष्पादिभिः शुभैः
अन्नं सदक्षिणं दद्यात्तथा शुक्ले च वाससी
ब्राह्मणे श्रद्धया युक्तस्तस्यां फलमिदं शृणु
मोदते भर्तृसहिता यथेंद्रेण शची तथा 4.21.
पुण्ये कुले श्रिया युक्ता नीरोगा सुखमश्नुते
पुत्रान्भोगांस्तथा रूपं सौभाग्यारोग्यमेव च
शृणुयाद्वाच्यमानं तु भक्त्या या ललिताव्रतम्
संपूज्य लक्षललितां ललितांगयष्टिं गंधोदकामृतघटीं शिरसि क्षिपेद्यः
अवियोगतृतीयाव्रतवर्णनम् वद नारी नरश्रेष्ठ व्रजेद्येन शिवालयम्
विधवा च परे लोके भूयोऽपि न वियुज्यते
लब्ध्वा हि भवतो जन्म दक्षकोपाद्वियुक्तया
महासौभाग्यसंदोहं दृष्ट्वा देव्या महात्मना
आचम्य च शुचिर्भूत्वा दंडवच्छंकरं नमेत्
औदुम्बरमृजुं गृह्य भक्षयेद्दंतधावनम्
द्वितीयायां परे वाह्नि गौरीं शंभुं च पूजयेत् पात्रे संस्थाप्य संपूज्य जागरं निशि कल्पयेत्