हरकर्मसमुत्पन्ने हरकाये हरप्रिये 4.20.
इत्थं संपूज्य नैवेद्यं दद्याद्विप्राय पांडव
अर्चितासि मया भक्त्या गच्छ देवि सुरालयम्
एवं यः पांडवश्रेष्ठ हरकालीव्रतं चरेत्
सा यत्फलमवाप्नोति तच्छृणुष्व नराधिप
सर्वभोगसमायुक्ता सौ भाग्यबलगर्विता
साग्रं वर्षशतं यावद्भोगान्भुक्त्वा महीतले
चिरभद्रा महाकालनंदीश्वरविनायकाः
संपूर्णसूर्यगणसप्तविरूढशस्यां तां वै हिमाद्रितनयां हरकालिकाख्याम्
ललिताव्रतवर्णनम् अथ पृच्छामि भगवन्व्रतं द्वादशमासिकम्
कृष्ण उवाच शंकरस्य महादेव्याः संवादं कुरुसत्तम
कैलासशिखरे रम्ये बहुपुष्पफलोपगे
कदंबबकुलामोद वशीकृतमधुव्रते
मृगर्क्षगजसिंहैश्च शाखामृगगणावृते
तपस्विभिर्महाभागैः सेवमानं समंततः
अप्सरोभिः परिवृतमुमा नत्वाब्रवीदिदम् भगवन्देवदेवेश शूलपाणे वृषध्वज
कथयस्व महेशान तृतीयाव्रतमुत्तमम्
नारी स्वर्गं शुभं रूपमारोग्यं श्रियमुत्तमाम् विहस्य शंकरः प्राह किं व्रतेन तव प्रिये
ये कामास्त्रिषु लोकेषु दिव्या भूम्यंतीरक्षजाः 4.21.
उमोवाच किंचित्त्रिभुवनाभोगभूषणे शशिभूषणे
भक्त्या स्त्रियो हि मां देव प्रजपंति शुभाशुभम्
सुशीलास्तपसा काश्चिच्छ्वश्रुभिः पीडिता भृशम्
एवं वहुविधैर्दुःखैः पीड्यमानास्तु दारुणैः
येन ताः सुखसंभोगरूपलावण्यसंपदा तन्मे कथय तत्त्वेन व्रतानामुत्तमं व्रतम्
मुखं प्रक्षाल्य हस्तौ च पादौ चैव समाहिताः
उपवासस्य नियमं दंतधावनपूर्वकम्
स्नात्वा तीर्थजले शुभ्रे वाससी परिधाय च
अर्चयंति सदा देवि त्वां भक्त्या भक्तवत्सले
यदृच्छालाभसंपन्नैर्धूपदीपार्चनादिभिः 4.21.
पात्रे ताम्रमये शुद्धे जलाक्षतविमिश्रिते