अथ देवसमानस्तु कदाचित्स वृषध्वजः 4.20.
तत्रस्थश्चाह्वयामास नर्मणा त्रिपुरांतकः
एह्येहि त्वमितः कासि कृष्णांजनसमन्विते
एवमुत्क्षिप्तमनसा देवी संकुद्धमानसा
रुरोद सस्वरं बाला तत्रस्था स्फुरिताधरा
यस्मान्ममोपमा दत्ता कृष्णवर्णेन शंकर
तस्माद्देहमिमं कृष्णं जुहोमि ज्वलितेऽनले
मुमोच हरितच्छायाकांतिं हरितशाद्वले
पुनः पर्वतराजस्य गृहे गौरी बभूव सा
एवं सा हरकालीति गौरीशस्य व्यवस्थिता
हरकर्मसमुत्पन्ने हरकाये हरप्रिये 4.20.
इत्थं संपूज्य नैवेद्यं दद्याद्विप्राय पांडव
अर्चितासि मया भक्त्या गच्छ देवि सुरालयम्
एवं यः पांडवश्रेष्ठ हरकालीव्रतं चरेत्
सा यत्फलमवाप्नोति तच्छृणुष्व नराधिप
सर्वभोगसमायुक्ता सौ भाग्यबलगर्विता
साग्रं वर्षशतं यावद्भोगान्भुक्त्वा महीतले
चिरभद्रा महाकालनंदीश्वरविनायकाः
संपूर्णसूर्यगणसप्तविरूढशस्यां तां वै हिमाद्रितनयां हरकालिकाख्याम्
ललिताव्रतवर्णनम् अथ पृच्छामि भगवन्व्रतं द्वादशमासिकम्
कृष्ण उवाच शंकरस्य महादेव्याः संवादं कुरुसत्तम
कैलासशिखरे रम्ये बहुपुष्पफलोपगे
कदंबबकुलामोद वशीकृतमधुव्रते
मृगर्क्षगजसिंहैश्च शाखामृगगणावृते
तपस्विभिर्महाभागैः सेवमानं समंततः
अप्सरोभिः परिवृतमुमा नत्वाब्रवीदिदम् भगवन्देवदेवेश शूलपाणे वृषध्वज
कथयस्व महेशान तृतीयाव्रतमुत्तमम्
नारी स्वर्गं शुभं रूपमारोग्यं श्रियमुत्तमाम् विहस्य शंकरः प्राह किं व्रतेन तव प्रिये
ये कामास्त्रिषु लोकेषु दिव्या भूम्यंतीरक्षजाः 4.21.
उमोवाच किंचित्त्रिभुवनाभोगभूषणे शशिभूषणे