यो गोपदव्रतमिदं कुरुते त्रिरात्रं गा वै प्रपूजयति गोरसपूजनाच्च
हरिकालीव्रतवर्णनम् सर्वधान्यैस्तां विरूढां भूतां हरितशाड्वलाम्
गन्धैः पुष्पैः फलैर्धूपैर्नैवेद्यैर्मोदकादिभिः
घण्टावाद्यादिभिर्गीतैः शुभैर्दिव्यकथानुगैः
सुवासिनीभिः सा नेया मध्ये पुण्यजलाशये
आर्द्रधान्यैः स्थिता कस्मात्पूज्यते स्त्रीजनेन सा
आसीद्दक्षस्य दुहिता कालीनाम्नी तु कन्यका
वर्णेनापि च सा कृष्णा नवनीलोत्पलप्रभा
विवाहिता विधानेन शंखतूर्यानुनादिना
निर्वर्तिते विवाहे तु तया सार्धं त्रिलोचनः
अथ देवसमानस्तु कदाचित्स वृषध्वजः 4.20.
तत्रस्थश्चाह्वयामास नर्मणा त्रिपुरांतकः
एह्येहि त्वमितः कासि कृष्णांजनसमन्विते
एवमुत्क्षिप्तमनसा देवी संकुद्धमानसा
रुरोद सस्वरं बाला तत्रस्था स्फुरिताधरा
यस्मान्ममोपमा दत्ता कृष्णवर्णेन शंकर
तस्माद्देहमिमं कृष्णं जुहोमि ज्वलितेऽनले
मुमोच हरितच्छायाकांतिं हरितशाद्वले
पुनः पर्वतराजस्य गृहे गौरी बभूव सा
एवं सा हरकालीति गौरीशस्य व्यवस्थिता
हरकर्मसमुत्पन्ने हरकाये हरप्रिये 4.20.
इत्थं संपूज्य नैवेद्यं दद्याद्विप्राय पांडव
अर्चितासि मया भक्त्या गच्छ देवि सुरालयम्
एवं यः पांडवश्रेष्ठ हरकालीव्रतं चरेत्
सा यत्फलमवाप्नोति तच्छृणुष्व नराधिप
सर्वभोगसमायुक्ता सौ भाग्यबलगर्विता
साग्रं वर्षशतं यावद्भोगान्भुक्त्वा महीतले
चिरभद्रा महाकालनंदीश्वरविनायकाः
संपूर्णसूर्यगणसप्तविरूढशस्यां तां वै हिमाद्रितनयां हरकालिकाख्याम्
ललिताव्रतवर्णनम् अथ पृच्छामि भगवन्व्रतं द्वादशमासिकम्