पुष्पमंडपिका कार्या गंधपुष्पाधिवासिता ततः प्रणम्य रुद्राणीं मंत्रमेतमुदीरयेत्
वेदेषु सर्वशास्त्रेषु दिवि भूमौ धरातले
त्वं शक्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती
एवं संक्षमयेद्देवीं प्रणिपत्य पुनःपुनः आच्छाद्यद्वारकेदारकपोतादिविभूषितम्
कुड्यस्तंभगवाक्षाढ्यं मणिमंडिततोरणम्
गृहदानविधानेन ब्राह्मणाय यशस्विने
सुवासिनीभ्यस्तद्देयं नैवेद्यं सूर्यसंस्थितम्
दांपत्यानि च भोज्यानि चतुर्थ्यां मधुरै रसैः
व्रतांतेगस्त्यमुनये दत्तं गृहवरं शुभम् 4.18.
तेन धर्मेण देव त्वं भर्ता लब्धोऽसि शंकरः
कौंतेय पुरुषो वापि ख्यातं रंभाव्रतं भुवि
स्त्रीणां चातुर्यसौभाग्यं गार्हस्थ्यं सर्वकामिकम् सपत्नीदर्पदलनं वशीकरणमुत्तमम्
हिमवद्विंध्ययोर्मध्ये आर्यावर्ते मनोहरे
मृतः शक्रपुरं याति ततो विष्णुपुरं व्रजेत्
यद्रंभया किल भयापहरं ततश्च गौर्या हिमाद्रिभवनस्थितयापि चीर्णम्
गोपदतृतीयाव्रतवर्णनम् तृतीयायां चतुर्थ्यां च शुद्धायां प्रतिवत्सरम्
उपवासेन गृह्णीयाद्व्रतं नाम्ना तु गोपदम्
दध्यक्षतैश्च मालाभिः पिष्टकैर्वनमालया
दद्याद्गवाह्निकं भक्त्या तासां पूर्वापराह्णयोः
व्रजंतीनां गवां नित्यमायांतीनां च भारत अर्घ्यं प्रदद्याद्गृष्ट्यां वा गवां पादेषु पांडव
माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः
गावो मे हृदये संतु गवां मध्ये वसाम्यहम्
इत्थं संपूज्य दत्त्वार्घं ततो गच्छेद्गृहाश्रमम्
शालिपिष्टं फलं शाकं तिलमन्नं च शोभनम्
प्रभाते गोपदं दत्त्वा ब्राह्मणाय हिरण्मयम् 4.19.
अर्च्यंतेऽत्र यथा गावस्तथा गोवर्धनो गिरिः
गोभक्तो गोव्रतं कृत्वा भक्त्या शक्त्या च गोष्पदम्
गोतर्णकाकुलं गेहं गोकुलं च समासतः
संतानं पूजितं लब्ध्वा ततः स्वर्गेऽमरो भवेत्
गन्धर्वैर्गीतवाद्येन सेव्यमानोऽप्सरोगणैः