कैलासशिखरे रम्ये नानाधातुविचित्रिते
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते
शंकरः पार्वतीं प्राह किं त्वया सद्व्रतं कृतम्
आगच्छ जानुदेशं तु सुप्रसन्ना तथा प्रिये
इत्युक्ता प्रणता भूत्वा गौरी प्राह शिवं शुभा
तेन मे त्वं मनोहारी भर्ता लब्धोसि शंकर
ब्रूहि पार्वति यत्नेन यच्चीर्णं पितुरंतिके
पुराहं देव तिष्ठामि कुमारी भवने पितुः
ततोऽहं मेनया प्रोक्ता स्वपित्रा च हिमाद्रिणा 4.18.
येन प्रारब्धमात्रेण सर्वं संपत्स्यते तव
एवं करोमि वै मातर्मम चोक्तं पुरस्त्वया
मेनोवाच कुरु पार्श्वेषु पञ्चाग्नीञ्ज्वालमानान्हुताशनान्
गार्हपत्यं दक्षिणाग्निमन्यं चाहवनीयकम्
एतेषां मध्यतो भूत्वा तिष्ठ पूर्वमुखा चिरम्
मृगाजिनच्छन्नकुचां जटावल्कलधारिणीम्
महालक्ष्मीर्महाकाली महामाया महामतिः
सरस्वती वैतरिणी सैव प्रोक्ता महासती
होमं कुर्युर्यतात्मानो ब्राह्मणाः सर्वतोदिशम्
बहुप्रकारनैवेद्यं नैवेद्यं घृतपाचितम् 4.18.
जीरकं कडुहुंडश्चाप्यपूपान्कुसुमं तथा
पुष्पमंडपिका कार्या गंधपुष्पाधिवासिता ततः प्रणम्य रुद्राणीं मंत्रमेतमुदीरयेत्
वेदेषु सर्वशास्त्रेषु दिवि भूमौ धरातले
त्वं शक्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती
एवं संक्षमयेद्देवीं प्रणिपत्य पुनःपुनः आच्छाद्यद्वारकेदारकपोतादिविभूषितम्
कुड्यस्तंभगवाक्षाढ्यं मणिमंडिततोरणम्
गृहदानविधानेन ब्राह्मणाय यशस्विने
सुवासिनीभ्यस्तद्देयं नैवेद्यं सूर्यसंस्थितम्
दांपत्यानि च भोज्यानि चतुर्थ्यां मधुरै रसैः
व्रतांतेगस्त्यमुनये दत्तं गृहवरं शुभम् 4.18.
तेन धर्मेण देव त्वं भर्ता लब्धोऽसि शंकरः