माहात्म्यं सवितुश्चात्र तीर्थानां च विशाम्पते । नारायणस्य माहात्म्यं तथा रुद्रस्य कथ्यते
महाभाग्यं च विप्राणां माहात्म्यं पुस्तकस्य च । दुर्गादेव्यास्तथा चोक्तं सत्यस्य च महामते
संक्षिप्तं संविधानं च धर्मं स्त्रीपुंसयोरपि । विभागं धर्मद्यूतं च कथकानां च शोधनम्
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् । आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा
संध्याविधिं प्रेतशुद्धिं स्नानतर्पणयोर्विधिम् । वैश्वदेवविधिं चापि तथा भोज्यविधिं नृप
लक्षणं दन्तकाष्ठस्य चरणव्यूहमुत्तमम् । संसारगमनं चैव त्रिविधं कर्मसम्भवम्
नैःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् । दाराणां लक्षणं प्रोक्तं तथा पात्रपरीक्षणम्
प्रसूतिं चापि गर्भस्य तथा कर्मफलं नृप । जातिधर्मान्कुलधर्मान्वेदधर्मांश्च पार्थिव
वैतानव्रतिकानां च तथासौ प्रोक्तवान्विभुः । ब्रह्मा कुरुकुलश्रेष्ठ शंकराय महात्मने
शंकरेण तथा विष्णोः कथितं कुरुनन्दन । विष्णुनापि पुनः प्रोक्तं नारदाय महीपते
नारदात्प्राप्तवाञ्छक्रः शक्रादपि पराशरः । पराशरात्ततो व्यासो व्यासादपि मया विभो
एवं परम्पराप्राप्तं पुराणमिदमुत्तमम् । शृणु त्वमपि राजेन्द्र मत्सकाशात्परं हितम्
सर्वाण्येव पुराणानि संज्ञेयानि नरर्षभ । द्वादशैव सहस्राणि प्रोक्तानीह मनीषिभिः
पुनर्वृद्धिं गतानीह आख्यानैर्विविधैर्वृष । यथा स्कान्दं तथा चेदं भविष्यं कुरुनन्दन
स्कान्दं शतसहस्रं तु लोकानां ज्ञातमेव हि । भविष्यमेतदृषिणा लक्षार्द्धं संख्यया कृतम्
तच्छ्रुत्वा पुरुषो भक्त्या इदं फलमवाप्नुयात् । ऋद्धिर्वृद्धिस्तथा श्रीश्च भवन्ति तस्य निश्चितम्
सुमन्तुरुवाच शृणुष्वेदं महाबाहो पुराणं पञ्चलक्षणम् । यच्छ्रुत्वा मुच्यते राजन्पुरुषो ब्रह्महत्यया
पर्वाणि चात्र वै पञ्च कीर्तितानि स्वयम्भुवा । प्रथमं कथ्यते ब्राह्मं द्वितीयं वैष्णवं स्मृतम्
तृतीयं शैवमाख्यातं चतुर्थं त्वाष्ट्रमुच्यते । पञ्चमं प्रतिसर्गाख्यं सर्वलोकैः सुपूजितम्
एतानि तात पर्वाणि लक्षणानि निबोध मे । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् । चतुर्दशभिर्विद्याभिर्भूषितं कुरुनन्दन
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः
प्रथमं कथ्यते सर्गो भूतानामिह सर्वशः । यच्छ्रुत्वा पापनिर्मुक्तो याति शान्तिमनुत्तमाम्
जगदासीत्पुरा तात तमोभूतमलक्षणम् । अविज्ञेयमतर्क्यं च प्रसुप्तमिव सर्वशः
ततः स भगवानीशो ह्यव्यक्तो व्यञ्जयन्निदम् । महाभूतानि वृत्तौजाः प्रोत्थितस्तमनाशनः
योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुत्थितः
योऽसौ षड्विंशको लोके तथा यः पुरुषोत्तमः । भास्करश्च महाबाहो परं ब्रह्म च कथ्यते
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अत एव ससर्जादौ तासु वीर्यमवासृजत्
यस्मादुत्पद्यते सर्वं सदेवासुरमानुषम् । बीजं शुक्रं तथा रेत उग्रं वीर्यं च कथ्यते