गोधारथगतां देवीं रुद्रध्यानपरायणाम् केसरैर्मधुरैर्द्रव्यैः स्वर्णमाणिक्यपूजया
ॐ भूषिका देवभूषा च भूषिका ललिता उमा
दौर्भाग्यं मे शमयतु सुप्रसन्नमनाः सदा
अङ्गेङ्गे च ममोपाङ्गे पर्वेपवे स्थितामृतम्
एवमुच्चार्य मंत्रांश्च नारीज्ञानवती सती
जीरकैः कटुहुण्डैश्च लवणैर्गुडसर्पिषा
कुसुमैः. कुंकुमैर्गन्धैः कालेयागुरुचन्दनैः
नेत्रैरनेकदेशोत्थैः पूपकैस्तिलतण्डुलैः
इत्येवमादिनैवेद्यैः पूजयित्वा महाद्रुमम् 4.16.
एतत्करोति या पुत्री तृतीयाव्रतमुत्तमम्
एतद्व्रतं मया ख्यातं यास्यंति शाश्वतीः समा
स्थित्वा वर्षशतं चान्ते ततो रुद्रपुरं शुभम्
तत्र त्वारमयिष्यंति स्वभर्तॄन्वत्सरान्बहून्
अर्घं महार्घमणिकुंकुमकेसराढ्यं स्रग्गंधमुग्धमुखरालि कुलोपगीतम्
मेघपालीतृतीयाव्रतवर्णनम् मेघपालीव्रत कृष्ण कदाचित्क्रियते नृभिः
मेघपाल्यै प्रदातव्यो भक्त्या स्त्रीभिर्नृभिस्तथा
अर्घो विरूढैर्गोधूमैः सप्तधान्यसमन्वितैः
तांबूलसदृशैः पर्वै रक्ता वल्ली समंजरी
मेघपाल्यां धान्यतैलगुडकुंकुमहैमनान्
पापं सत्यानृतं कृत्वा द्रव्यलुब्धाः फलान्विताः
मानोन्मानैर्जन्म मध्ये यत्पापं कुत्रचित्कृतम्
मेघपाली शुभे स्थाने शुभे देशे समुत्थिता
खर्जूरैर्नालिकेरैश्च दाडिमैः करवीरकैः
रक्तवस्त्रैः समाच्छाद्य पिष्टातकविभूषिताम् 4.17.
वेदोक्तेन द्विजो विद्वांस्तच्च तस्यै निवेदयेत्
नारी वा पुरुषव्याघ्र प्राप्नोति परमां श्रियम्
विष्णुलोकमवाप्नोति देहांते यानसंस्थितः उद्धृत्य नात्र संदेहस्त्वया कार्यो युधिष्ठिर
नरक भीरुतया ददाति योऽर्घ्यं फलाद्यनुयुतं ननु मेघपालेः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मेघपालीतृतीयाव्रतवर्णनं नाम सप्तदशोऽध्यायः
रूपरम्भाव्रतवर्णनम् स्त्रीणां संपद्यते येन मर्त्यलोके गृहं शुभम्