अनेनविधिना राजन्यावन्मासचतुष्टयम्
कार्त्तिके चाथ संप्राप्ते शय्यां श्रीकांतसंयुताम्
प्रतिमासं च सोमाय अर्घ्यं दद्यात्समंत्रकम्
गगनांगणसद्दीप दुराब्धिमथनोद्भव
एवं करोति यः सम्यङ्नरो मासचतुष्टयम्
अशून्यशयनश्चैव धर्मकामार्थसाधकः 4.15.
नारी च पार्थ धर्मज्ञा व्रतमेतद्यथाविधि
वैधव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम
एषा ह्यशून्यशयना नृपते द्वितीया ख्याता समस्तकलुषापहराऽद्वितीया
मधूकतृतीयाव्रतवर्णनम् प्रातः स्थित्वा ब्रह्मचर्ये जटामुकुटशोभिता
गोधारथगतां देवीं रुद्रध्यानपरायणाम् केसरैर्मधुरैर्द्रव्यैः स्वर्णमाणिक्यपूजया
ॐ भूषिका देवभूषा च भूषिका ललिता उमा
दौर्भाग्यं मे शमयतु सुप्रसन्नमनाः सदा
अङ्गेङ्गे च ममोपाङ्गे पर्वेपवे स्थितामृतम्
एवमुच्चार्य मंत्रांश्च नारीज्ञानवती सती
जीरकैः कटुहुण्डैश्च लवणैर्गुडसर्पिषा
कुसुमैः. कुंकुमैर्गन्धैः कालेयागुरुचन्दनैः
नेत्रैरनेकदेशोत्थैः पूपकैस्तिलतण्डुलैः
इत्येवमादिनैवेद्यैः पूजयित्वा महाद्रुमम् 4.16.
एतत्करोति या पुत्री तृतीयाव्रतमुत्तमम्
एतद्व्रतं मया ख्यातं यास्यंति शाश्वतीः समा
स्थित्वा वर्षशतं चान्ते ततो रुद्रपुरं शुभम्
तत्र त्वारमयिष्यंति स्वभर्तॄन्वत्सरान्बहून्
अर्घं महार्घमणिकुंकुमकेसराढ्यं स्रग्गंधमुग्धमुखरालि कुलोपगीतम्
मेघपालीतृतीयाव्रतवर्णनम् मेघपालीव्रत कृष्ण कदाचित्क्रियते नृभिः
मेघपाल्यै प्रदातव्यो भक्त्या स्त्रीभिर्नृभिस्तथा
अर्घो विरूढैर्गोधूमैः सप्तधान्यसमन्वितैः
तांबूलसदृशैः पर्वै रक्ता वल्ली समंजरी
मेघपाल्यां धान्यतैलगुडकुंकुमहैमनान्
पापं सत्यानृतं कृत्वा द्रव्यलुब्धाः फलान्विताः