गीर्गिरा भारती वाणी वाचा मेधा सरस्वती
देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः
अनध्यायेषु शास्त्राणि पाठयंति पठंति च
प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा
पुत्रैः पौत्रैश्च दौहित्रैः स्वधामंत्रैः सुपूजिताः
कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर
द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यदृच्छया
तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः 4.14.
अस्यां निजगृहे पार्थ न भोक्तव्यमतो बुधैः
दानानि च प्रदेयानि भगिनीभ्यो विधानतः
सर्वा भगिन्यः संपूज्या अभावे प्रतिपत्तिगाः
मातुलस्य सुताहस्ताद्वितीयायां पुनर्नृप
भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम्
धन्यं यशस्यमायुष्यं धर्मकामार्थवर्द्धनम्
यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितो जगति सत्त्वरसौहृदेन
अशून्यशयनमाहात्म्यवर्णनम् गार्हस्थ्यं तच्च भवति दंपत्योः प्रीयमाणयोः
पत्नीहीनः पुमान्पत्नी भर्त्रा विरहिता तथा
तद्ब्रूहि देवदेवेश विधवा स्त्री न जायते
यामुपोष्य न वैधव्यं प्राप्नोति स्त्री युधिष्ठिर
पत्नीविमुक्तश्च नरो न कदाचित्प्रजायते
अशून्यशयनं नाम तदा ग्राह्या च सा तिथिः
कृष्णपक्षे द्वितीयायां श्रावणे नृपसत्तम
कृत्वा पितॄन्मनुष्यांश्च देवान्सं तर्प्य भक्तिमान्
तत्रस्थं श्रीधरं श्रीशं भक्त्याभ्यर्च्य श्रिया सह
इममुच्चारयेन्मंत्रं प्रणम्य जगतः पतिम् 4.15.
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् पितरो मा प्रणश्यंतु मत्तो दांपत्यभेदतः
लक्ष्म्या वियुज्यते कृष्ण न कदाचिद्यथा भवान्
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा
एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्या हरेस्तथा विप्राय दक्षिणां दद्यात्स्व शक्त्या फलसंयुताम्