गोपिताश्च सदा लोके न प्रोक्ताश्च मया क्वचित्
एका तु श्रावणे मासि अन्या भाद्रपदे तथा
श्रावणे कलुषा नाम प्रोष्ठपादे च गीर्मला
कस्मात्सा कलुषा प्रोक्ता कस्मात्सा गीर्मला मता । कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता
ब्रह्महत्यापनोदार्थमश्वमेधे प्रवर्तिते
क्रोधादिन्द्रेण वजेण ब्रह्महत्या निषूदिता
नार्यां ब्रह्महने वह्नौ संविभज्य यथाक्रमम्
नारीवृक्षनदीभूमिवह्निब्रह्महनेष्वथ
मधुकैटभयो रक्ते पुरा मग्नेति मेदिनी 4.14.
नद्यः पूरमलाः सर्वा वह्नेर्धूमशिखा मलः
गीर्गिरा भारती वाणी वाचा मेधा सरस्वती
देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः
अनध्यायेषु शास्त्राणि पाठयंति पठंति च
प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा
पुत्रैः पौत्रैश्च दौहित्रैः स्वधामंत्रैः सुपूजिताः
कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर
द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यदृच्छया
तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः 4.14.
अस्यां निजगृहे पार्थ न भोक्तव्यमतो बुधैः
दानानि च प्रदेयानि भगिनीभ्यो विधानतः
सर्वा भगिन्यः संपूज्या अभावे प्रतिपत्तिगाः
मातुलस्य सुताहस्ताद्वितीयायां पुनर्नृप
भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम्
धन्यं यशस्यमायुष्यं धर्मकामार्थवर्द्धनम्
यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितो जगति सत्त्वरसौहृदेन
अशून्यशयनमाहात्म्यवर्णनम् गार्हस्थ्यं तच्च भवति दंपत्योः प्रीयमाणयोः
पत्नीहीनः पुमान्पत्नी भर्त्रा विरहिता तथा
तद्ब्रूहि देवदेवेश विधवा स्त्री न जायते
यामुपोष्य न वैधव्यं प्राप्नोति स्त्री युधिष्ठिर