आचम्य खान्युपालभ्य स्मृत्वा सोमं स्वपेद्भुवि
मुन्यन्नं तु तृतीयायां चतुर्थ्यां गोरसोत्तरम् ।। घृताक्ताः सगुणाः शस्ताः पञ्चम्यां कृशरास्सदा
शस्ता भद्रेषु सर्वेषु सदा श्यामाकतण्डुलाः
प्रातः स्नानं ततः कृत्वा संतर्ज्य पितृदेवताः
भृत्यबन्धुजनैः सार्द्धं पश्चाद्भुञ्जीत कामतः
करोत्येतन्नरो भक्त्या वर्षमेकममत्सरी
एतत्करोति या कन्या शुभं प्राप्नोति सा पतिम्
राज्यार्थी लभते राज्यं धनार्थी लभते धनम्
योषित्कुलाकुलविवाहमनोरमाणि शय्यान्नयानशयनासनशोभितानि 4.13.
द्वितीयाव्रतमाहात्म्यवर्णनम् मासैश्चतुर्भिश्चत्वारः प्रावृट्छुक्लाः क्लमापहाः
गोपिताश्च सदा लोके न प्रोक्ताश्च मया क्वचित्
एका तु श्रावणे मासि अन्या भाद्रपदे तथा
श्रावणे कलुषा नाम प्रोष्ठपादे च गीर्मला
कस्मात्सा कलुषा प्रोक्ता कस्मात्सा गीर्मला मता । कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता
ब्रह्महत्यापनोदार्थमश्वमेधे प्रवर्तिते
क्रोधादिन्द्रेण वजेण ब्रह्महत्या निषूदिता
नार्यां ब्रह्महने वह्नौ संविभज्य यथाक्रमम्
नारीवृक्षनदीभूमिवह्निब्रह्महनेष्वथ
मधुकैटभयो रक्ते पुरा मग्नेति मेदिनी 4.14.
नद्यः पूरमलाः सर्वा वह्नेर्धूमशिखा मलः
गीर्गिरा भारती वाणी वाचा मेधा सरस्वती
देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः
अनध्यायेषु शास्त्राणि पाठयंति पठंति च
प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा
पुत्रैः पौत्रैश्च दौहित्रैः स्वधामंत्रैः सुपूजिताः
कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर
द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यदृच्छया
तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः 4.14.
अस्यां निजगृहे पार्थ न भोक्तव्यमतो बुधैः