एवं गृहीतनियमो गृहं गच्छेच्छुचिव्रतः
स्नात्वा चैव ततो नाम तृतीयादि चतुर्दिने
चतुर्दिने द्वितीयादौ देवमभ्यर्चयेऽच्युतम्
नाभिपूजा द्वितीयेह्नि कर्तव्या विधिवन्नरैः
चतुर्थेह्नि जगद्धातुः पूजां शिरसि कल्पयेत्
घीवरैर्हरिनैवेद्यैर्दीपदानैश्च भक्तितः
ततो दिनावसाने तु मुहूर्ते निर्गते सति
शशिचन्द्रशशांकेन्दुनामानि क्रमशो नरः
स चार्घ्यो यादृशो देय ऋद्धिमद्भिरथेतरैः 4.13.
चन्दनागुरुकर्पूरदधि दूर्वाक्षतादिभिः
पुष्पैः फलैः स्वकालोत्थैः खर्जूरैर्न्नालिकेरकैः
सत्त्वयुक्तस्य ऋद्धस्य राजन्नेष विधिः स्मृतः
लवणं गुडं घृतं तैलं पयःकुंभास्तिलैः सह
प्रत्यहं वर्द्धयेदर्घ्यं शशि वृद्ध्या नरोत्तम
नवोनवोसि मासांते जायमानः पुनःपुनः
गगनाङ्गणसद्दीप दुग्धाब्धिमथनोद्भव
दत्त्वार्घ्यं द्विजराजाय तद्विप्राय निवेदयेत्
भूमिं तु भाजनं कृत्वा पद्मपत्रसमास्तृताम्
समालभ्य धरां देवीं मंत्रेणानेन मंत्रवित् 4.13.
मदनुग्रहाय सुस्वादं कुर्वन्नममृतोपमम्
आचम्य खान्युपालभ्य स्मृत्वा सोमं स्वपेद्भुवि
मुन्यन्नं तु तृतीयायां चतुर्थ्यां गोरसोत्तरम् ।। घृताक्ताः सगुणाः शस्ताः पञ्चम्यां कृशरास्सदा
शस्ता भद्रेषु सर्वेषु सदा श्यामाकतण्डुलाः
प्रातः स्नानं ततः कृत्वा संतर्ज्य पितृदेवताः
भृत्यबन्धुजनैः सार्द्धं पश्चाद्भुञ्जीत कामतः
करोत्येतन्नरो भक्त्या वर्षमेकममत्सरी
एतत्करोति या कन्या शुभं प्राप्नोति सा पतिम्
राज्यार्थी लभते राज्यं धनार्थी लभते धनम्
योषित्कुलाकुलविवाहमनोरमाणि शय्यान्नयानशयनासनशोभितानि 4.13.
द्वितीयाव्रतमाहात्म्यवर्णनम् मासैश्चतुर्भिश्चत्वारः प्रावृट्छुक्लाः क्लमापहाः