इति ते कथितं देव यथाशास्त्रेषु भाषितम्
इति श्रुत्वा स होवाच स पुत्रो मदनालसः 3.2.14.
स स्नात्वा बहुला ष्टम्यां तत्पुण्येन नृपोत्तम
स्मृत्वा स हृदि गोविंदं तुष्टाव श्लक्ष्णया गिरा
त्वयैकेन लीलार्थतो देवदेव प्रियाराधया सार्द्धमेतद्धि गुप्तम्
जगत्यन्तकाले त्वया कालमूर्त्या जगत्संहृतं वै नमस्तेनमस्ते
इति स्तोत्रप्रभावेन देवदेवेन मोचिता
रमणीं स्वां समालिंग्य ननन्द मुदितो नृप सुदेवं स समाहूय स्वां स्वसारं ददौ मुदा
सुदेवस्तस्य भगिनीं क्षत्रियस्य मदातुराम्
इति ते कथितं भूप चरित्रं तस्य धीमतः
पुनराख्यानकं विप्र वर्णयामास सुन्दरम्
कान्यकुज्जे महाराज ब्राह्मणो दानशीलकः प्रतिग्रहेण यद्द्रव्यं तेन दानमचीकरत्
कदाचित्तु शरत्काले नवदुर्गाव्रतं ह्यभूत्
किं कर्तव्यं मया चाद्य येन द्रव्ययुतो ह्यहम्
इति शोकसमायुक्तस्तदा देवीप्रसादतः
निराहारव्रतं तेन कृतं तु नवमाह्निकम्
जीमूतकेतुरिति च सोभूद्विद्याधराधिपः
उवास कतिचिद्वर्षान्दिव्य भोगप्रभोगवान्
तेन वृक्षप्रभावेन जातः पुत्रो महोत्तमः
स वै पूर्वभवे राजन्मध्यदेशे महोत्तमे 3.2.15.
एकदा मृगयाकेलिलोलुपः स महीपतिः
चैत्रशुक्लनवम्यां तु न कृतं जीवघातनम्
वाल्मीकेश्च कुटीमध्ये रात्रौ जागरणं कृतम्
श्रुता राममयी गाथा तस्य पुण्यप्रभावतः
कल्पवृक्षस्य वै पूजा कृता तेन महात्मना
स तमाह महावृक्ष मदीयं नगरं शुभम्
इत्युक्ते सति वृक्षेण नगरं भूपतेः समम्
सर्वे ते राजतुल्याश्च कल्पवृक्षप्रसादतः
मलयाद्रौ महारम्ये तेपतुर्बहुलं तपः
कमलाक्षीति विख्याता कन्या च शिवमंदिरे 3.2.15.