ज्येष्ठस्य शुक्लपक्षादौ त्रीन्वै मासान्युधिष्ठिर
शुक्ले भाद्रपदस्यादौ त्रीन्मासान्पांडुनंदन
शुक्लमार्गशिरस्यादौ त्रीन्मासांस्तु नराधिप
समासेनैव चोक्तानि भद्राण्येतानि भारत
भद्राणां नियमाधानं प्रधाननियमांस्तथा
श्रीभगवानुवाच शृणु राजन्नवहितो भद्राणां विस्तरं परम्
शुक्ले मार्गशिरस्यादौ चत्वारस्तिथयो वराः
एकभुक्तासनस्तिष्ठेत्प्रतिपद्यां जितेन्द्रियः
प्रहरत्रये समधिके गते स्नानं समाचरेत् 4.13.
अहं ते तु प्रदिश्यामि मंत्राणां विधिमुत्तमम्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये शुचयोऽमलाः
या स्त्री भर्त्रा वियुक्तापि स्वाचारैः संयुता शुभा
स्नानं नद्यां तडागे वा वाप्यां कूपे गृहेपि वा
मृदं मंत्रेण संगृह्य सर्वांगेषु प्रलेपयेत्
मयापि वंदिता भक्त्या मामतो विमलं कुरु
इति मृन्मंत्रः जलावगाहनं कुर्यात्कुण्डमालिख्य धर्मवित्
त्वमादिः सर्वदेवानां जगतां च जगन्मये
गंगासागरजं तोयं पौष्करं नार्मदं तथा
इति स्नानमंत्रः एवं स्नात्वा समाप्लुत्य आचम्य तटमास्थितः ।।4.13.
निवस्य वाससी शुभ्रे शुचिः प्रयतमानसः
एवं गृहीतनियमो गृहं गच्छेच्छुचिव्रतः
स्नात्वा चैव ततो नाम तृतीयादि चतुर्दिने
चतुर्दिने द्वितीयादौ देवमभ्यर्चयेऽच्युतम्
नाभिपूजा द्वितीयेह्नि कर्तव्या विधिवन्नरैः
चतुर्थेह्नि जगद्धातुः पूजां शिरसि कल्पयेत्
घीवरैर्हरिनैवेद्यैर्दीपदानैश्च भक्तितः
ततो दिनावसाने तु मुहूर्ते निर्गते सति
शशिचन्द्रशशांकेन्दुनामानि क्रमशो नरः
स चार्घ्यो यादृशो देय ऋद्धिमद्भिरथेतरैः 4.13.
चन्दनागुरुकर्पूरदधि दूर्वाक्षतादिभिः