जातिस्मरः स्मरवपुः सुवर्णोत्पत्तिकारणम्
मूत्रश्लेष्मपुरीषादि यत्किञ्चित्क्षिपति क्षितौ
तेनासौ यजते राजा विधिवद्भूरिदक्षिणैः
बभार भृत्याननिशं पुपोष स्वजनातिथीन्
जातस्नेहं तथा पुत्रं ररक्ष रक्षि भिर्वृतः
अथास्य दस्यवः केचिच्छ्रुत्वा तं कनकाकरम्
तस्मिन्विनष्टे तन्नष्टं वरदानसमुद्भवम्
पातितं दस्युभिः पुत्रं दृष्ट्वा राजा सुदुःखितः
विलपंतं तु तं दृष्ट्वा नारदः प्राह संजयम् 4.13.
इत्युक्त्वा स समाचख्यौ चरितानि महौजसाम्
श्रुत्वा राजा नरेंद्राणां चरितानि महा त्मनाम्
नारदोऽपि नरेंद्रस्य मृतं पुत्रं यमालयात्
दृष्ट्वा स्पृष्ट्वा स पुत्रं तं परितुष्टेन चेतसा
किमाश्चर्यं प्रसन्नेन भवता मम नारद
षण्मासांते पुनरसौ जीवितं सर्वमेव तत्
एतत्ते सर्वमाख्यातं जातिस्मरणकारकम्
दाता क्षमी धनी वाग्मी रूपी स्वैर्भद्रकैर्भवेत्
चत्वारि राजन्भद्राणि चतुष्पादानि तानि वै
मार्गशीर्षे तु प्रथमं द्वितीयं फाल्गुने तथा 4.13.
फाल्गुनामलपक्षादौ त्रीन्मासांस्तु नराधिप
ज्येष्ठस्य शुक्लपक्षादौ त्रीन्वै मासान्युधिष्ठिर
शुक्ले भाद्रपदस्यादौ त्रीन्मासान्पांडुनंदन
शुक्लमार्गशिरस्यादौ त्रीन्मासांस्तु नराधिप
समासेनैव चोक्तानि भद्राण्येतानि भारत
भद्राणां नियमाधानं प्रधाननियमांस्तथा
श्रीभगवानुवाच शृणु राजन्नवहितो भद्राणां विस्तरं परम्
शुक्ले मार्गशिरस्यादौ चत्वारस्तिथयो वराः
एकभुक्तासनस्तिष्ठेत्प्रतिपद्यां जितेन्द्रियः
प्रहरत्रये समधिके गते स्नानं समाचरेत् 4.13.
अहं ते तु प्रदिश्यामि मंत्राणां विधिमुत्तमम्