भद्रोपवासव्रतवर्णनम् तदहं ज्ञातुमिच्छामि प्राप्यते केन कर्मणा
वरप्रदानाद्देवानामृषीणां सेवनेन वा
तत्प्रभावाद्भवेन्नूनं राजञ्जातिस्मरो नरः
शुभोदयः पुरा वैश्यो बभूव यमुनातटे
संजयस्य सुतो जातः स्वर्णष्ठीवीति विश्रुतः
नारदस्य प्रभावेण पुनरु जीव्यतेऽप्यसौ
दस्युभिश्च कथं नीतो मृत्युं वै जीवितः कथम्
. देवर्षी तस्य मित्रे च सदा नारदपर्वतौ
एकदा संजयगृहं संप्राप्तौ तौ यदृच्छया
तेषामथोपविष्टानां पूर्ववृत्तांतभाषिणौ 4.13.
पर्वतः प्राह राजानं कन्येयं वरवर्णिनी
पद्मपत्रेक्षणनखा पद्मकिंजल्कसप्रभा
सविलासा गजगतिः सुनासा कोकिलस्वरा
तिलपुष्पस्फुटा नासा रूपं संपरिलक्ष्यते
एवं ब्रुवा णं तं विप्रं विस्मयोत्फुल्ललोचनम्
अथोवाच नृपं धीमान्नारदः क्षुभितेन्द्रियः १६ ईप्सितं तव दास्यामि वरं मर्त्येषु दुर्ल्लभम्
कृताञ्जलिरुवाचेदं प्रहर्षोत्फुल्ललोचनः
यस्य मूत्रं पुरीषं वा श्लेष्माणं क्षिपति क्षितौ
एवमस्त्विति तं राजन्नारदः प्रत्यभाषत 4.13.
एवमुक्त्वा स तां कन्यां सालङ्कारां सुमध्यमाम्
तत्तस्य चेष्टितं दृष्ट्वा पर्वतः क्रोधमूर्छितः
मयेयं प्रार्थिता पूर्वं त्वया यस्माद्विवाहिता
दत्तस्त्वयास्य यः पुत्रो वरदानेन नारद
एवमुक्तः पर्वतेन नारदः प्राह दुर्मनाः
सामान्यं सर्वभूतानां कन्या भवति सुव्रत
न सेवितास्त्वया वृद्धास्तेन मां शपसे रुषा
यस्मादेतदविज्ञाय शपसे मामनागसम्
संजयस्य सुतः शापाद्यदि पञ्चत्वमेष्यति
एवं शप्त्वा तदाऽ न्योन्यं देवर्षी तावुभौ पुनः 4.13.
अथास्य सप्तमे मासि जातः पुत्रो नृपस्य सः