आमंत्र्य स्वगृहं गत्वा महादेवं स्मरन्क्षितौ
भास्करोदयमासाद्य स्नात्वा चादाय दीपकान् 4.12.
अभ्यंगयित्वा देवेशं कषायैश्च विरूक्षयेत्
घृतेन मधुना दध्ना रसेन पयसा पुनः
लेपयेत्सुघनं पश्चात्कर्पूरागरुचंदनैः
वस्त्रयुग्मं पताकां च पञ्चवर्णं वितानकम्
पश्चान्निवेद्य नैवेद्यं स्तुत्वा स्वभवनं व्रजेत्
व्रतिनश्च तथाचार्यं भोजयेन्मिथुनानि च
एवं विसृज्य तान्सर्वान्सार्द्धं बंधुजनैः स्वयम्
एवमेव विधिं कृत्वा प्रारभेताधनो धनी
वित्तहीनो यथा कश्चिच्छ्रद्धया च पुनःपुनः
प्रतिमासमुपोष्यैवं प्रति पत्कार्त्तिकावधौ 4.12.
द्वितीये द्वे पञ्चदश्यां कृत्वा नक्तं नराधिपः
द्वितीयोपवसेच्छुक्ला ततः प्रभृति वत्सरम्
उपवासद्वयं कृत्वा तृतीयां प्रारभेत्ततः
कृत्वैवं षोडशे वर्षे पूर्णमास्यां समुद्यतः
हेमशृंगीं रौप्यखुरां सघंटां कांस्यदोहनाम्
शिवभक्तिरतान्विप्रान्विशुद्धांश्चैव षोडश
ब्राह्मणांश्च यथाशक्त्या भोजयेदपरानपि
बृहत्तपोव्रतं चैव ब्रह्मघ्नाद्यघशोषणम्
चतुर्णामपि वर्णानां स्वर्गसोपानवत्स्थितम्
धन्यमायुःप्रदं पुण्यं रूपसौभाग्यवर्द्धनम् 4.12.
विधवयापि कर्तव्यं भूयोऽवैधव्यहेतवे
उपोष्य प्रतिमासं तु भुंजीत ब्राह्मणैः सह
अंते चांते सुवर्णानां प्रारंभविधिनाचरेत्
व्रतविघ्ने महाराज जाते दैवात्कथंचन
अथ शीघ्रतरं कश्चिद्व्रतं कर्तुं समुद्यतः
अंते चांते च वर्षाणां प्रारंभविधिना च रेत्
सोऽपि तत्फलमाप्नोति सत्यारंभप्रभावतः भवंति पुत्रसंश्लिष्टाः शिवध्यानानुभावतः
पुण्यं बृहत्तप इदं व्रतमादराद्ये कुर्वंति षोडशसमा निरताः स्वधर्मे