एवं यान्यापि कौंतेय कोकिलाव्रतमादरात्
ये कोकिलां कलरवां कलकंठपीठां यच्छंति साज्यतिलपिष्टमयीं द्विजेभ्यः
बृहत्तपोव्रतवर्णनम् सुरासुरमुनीनां च दुर्ल्लभं विधिना शृणु
पर्वण्याश्वयुजस्यांते पायसं घृत संयुतम्
आचम्याथ शुचिर्भूत्वा बिल्वजं दंतधावनम्
अहं देवव्रतमिदं कर्तुमिच्छामि शाश्वतम्
इत्येवं नियमं कृत्वा यावद्वर्षाणि षोडश
ततो मार्गशिरे मासि प्रतिपद्यपरेऽहनि
स्नात्वा देवं समभ्यर्च्य रात्रौ प्रज्वाल्य दीपकान्
महादेवरतान्विप्रान्सपत्नीकान्यतव्रतान्
आमंत्र्य स्वगृहं गत्वा महादेवं स्मरन्क्षितौ
भास्करोदयमासाद्य स्नात्वा चादाय दीपकान् 4.12.
अभ्यंगयित्वा देवेशं कषायैश्च विरूक्षयेत्
घृतेन मधुना दध्ना रसेन पयसा पुनः
लेपयेत्सुघनं पश्चात्कर्पूरागरुचंदनैः
वस्त्रयुग्मं पताकां च पञ्चवर्णं वितानकम्
पश्चान्निवेद्य नैवेद्यं स्तुत्वा स्वभवनं व्रजेत्
व्रतिनश्च तथाचार्यं भोजयेन्मिथुनानि च
एवं विसृज्य तान्सर्वान्सार्द्धं बंधुजनैः स्वयम्
एवमेव विधिं कृत्वा प्रारभेताधनो धनी
वित्तहीनो यथा कश्चिच्छ्रद्धया च पुनःपुनः
प्रतिमासमुपोष्यैवं प्रति पत्कार्त्तिकावधौ 4.12.
द्वितीये द्वे पञ्चदश्यां कृत्वा नक्तं नराधिपः
द्वितीयोपवसेच्छुक्ला ततः प्रभृति वत्सरम्
उपवासद्वयं कृत्वा तृतीयां प्रारभेत्ततः
कृत्वैवं षोडशे वर्षे पूर्णमास्यां समुद्यतः
हेमशृंगीं रौप्यखुरां सघंटां कांस्यदोहनाम्
शिवभक्तिरतान्विप्रान्विशुद्धांश्चैव षोडश
ब्राह्मणांश्च यथाशक्त्या भोजयेदपरानपि
बृहत्तपोव्रतं चैव ब्रह्मघ्नाद्यघशोषणम्