रक्ततंतुपरीधानं गन्धधूपविलेपनैः
गुणकैर्घटकैर्दिव्यैर्नालिकेरैः सुशोभनैः
करवीर विषावास नमस्ते भानुवल्लभ
आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च
एवं भक्त्या समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम्
एतद्व्रतं महाभाग सूर्याराधनकाम्यया
दमयन्त्या सरस्वत्या गायत्र्या गंगया तथा करवीव्रतं पार्थ सर्वसौख्यफलप्रदम्
संपूज्य रत्नकुसुमांचितसर्वशाखं नीलैर्दलैस्तततनुं करवीरवृक्षम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे करवीरव्रतवर्णनं नाम दशमोऽध्यायः
कोकिलाव्रतवर्णनम् thumb|[https://vedastudy.tripod.com/pur_index25/rakshab.htm रक्षाबन्धनम्] thumb|कोकिला Cochlea कुलस्त्रीणां तदाचक्ष्व व्रतं मम सुरोत्तम
तस्यां शत्रुघ्ननाम्नाभूद्राजा रामप्रतिष्ठितः
तस्य भार्या कीर्तिमाला नाम्नासीत्प्रथिता भुवि
पृष्टः सुखं मुनिश्रेष्ठ कथं समुपजायते
एवमुक्तस्तया ज्ञानी वशिष्ठः कीर्तिमालया
संकल्पयेन्मासमेकं श्रावणे श्वःप्रभृत्यहम्
स्नानं करिष्ये नियता ब्रह्मचर्यस्थिता सती
इति संकल्प्य पुरुषो नारी वा ब्राह्मणांतिके
पुरुषः प्रतिपत्कालाद्दन्तधावनपूर्वकम्
स्नानं कुर्याद्व्रती पार्थ सुगन्धामलकैस्तिलैः 4.11.
वचयाष्टौ पुनः पिष्ट्वा शिरोरुहविमर्दनम्
तर्पयित्वा तिलापिष्टैः कोकिलां पक्षिरूपिणीम्
पत्रैर्वा धूपनैवेद्यदीपालक्तकचंदनैः नित्यं तिलव्रती भक्तो मंत्रेणानेन पांडव
तिलसहे तिलसौख्ये तिलवर्णे तिलप्रिये
इत्युच्चार्य ततः पश्चाद्गृहमभ्येत्य संयतः
मासांते ताम्रपात्र्यां तु कोकिलां तिलपिष्टजाम्
वस्त्रैर्द्धनैर्गुडैर्युक्तां श्रावण्यां कुंडलेऽथ वा व्यासे वा संप्रदातव्या व्रतिभिः शुभकाम्यया
एवं या कुरुते नारी कोकिलाव्रतमादरात्
निःसापत्न्यं पतिं भव्यं सस्नेहं प्राप्य भूतले
एतद्व्रतं वशिष्ठेन मुनिना कथितं पुरा 4.11.
तस्याश्च सर्वं संपन्नं वशिष्ठवचनादिह