गतेषु तेषु स नृपः पुत्रेण सह भारत
एतद्व्रतं महाभाग कीर्तितं ते महोदयम्
एतत्त्रिलोकतिलकालकभूषणं ते ख्यातं व्रतं सकलदुःखहरं परं च
अशोकव्रतवर्णनम् अशोकं पूजयेद्वृक्षं प्ररूढशुभपल्लवम्
विरूढैः सप्तधान्यैश्च गुण कैर्मोदकैः शुभैः
पुष्पधूपादिना तद्वत्पूजयेत्तद्दिनेऽनघ
पितृभ्रातृपतिश्वश्रूश्वशुराणां तथैव च
इत्युच्चार्य ततो दद्यादर्घ्यं श्रद्धासमन्वि तम्
दमयन्ती यथा स्वाहा यथा वेदवती सती
वने व्रजंत्या सद्धर्मः सीतया संप्रदर्शितः
कृत्वा समीपे भर्तारं देवरं च तिलाक्षतैः
अर्चयित्वा ह्यर्थितोऽसौ रक्ताशोको युधिष्ठिर
चिरं जीवतु मे वृद्धः श्वशुरः कोशलेश्वरः कौशल्यामपि जीवन्तीं पश्येयमिति मैथिली ।। 4.9.
ययाचे तं महाभागा द्रुमं सत्योपयाचनम्
एवमन्यापि या नारी पूजयेद्भुवि तं नगम्
क्षमाप्य वन्दयेन्मूलं पादपं रक्तपल्लवम्
महावृक्ष महाशाख मकरध्वजमन्दिर
एवमाभाष्य तं वृक्षं दत्त्वा विप्राय दक्षिणाम्
याः शोकनाशनमशोकतरुं तरुण्यः संपूजयंति कुसुमाक्षतधूपदीपैः
करवीरव्रतवर्णनम् देवोद्यानभवं हृद्यं करवीरं समर्चयेत
रक्ततंतुपरीधानं गन्धधूपविलेपनैः
गुणकैर्घटकैर्दिव्यैर्नालिकेरैः सुशोभनैः
करवीर विषावास नमस्ते भानुवल्लभ
आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च
एवं भक्त्या समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम्
एतद्व्रतं महाभाग सूर्याराधनकाम्यया
दमयन्त्या सरस्वत्या गायत्र्या गंगया तथा करवीव्रतं पार्थ सर्वसौख्यफलप्रदम्
संपूज्य रत्नकुसुमांचितसर्वशाखं नीलैर्दलैस्तततनुं करवीरवृक्षम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे करवीरव्रतवर्णनं नाम दशमोऽध्यायः
कोकिलाव्रतवर्णनम् thumb|[https://vedastudy.tripod.com/pur_index25/rakshab.htm रक्षाबन्धनम्] thumb|कोकिला Cochlea कुलस्त्रीणां तदाचक्ष्व व्रतं मम सुरोत्तम