गात्रत्रयं विरूपं स्याद्द्वितीयं वा स्वरूपतः
दुर्ल्लंघ्या प्रकृतिः साक्षादनुभूतकरी भवेत्
विप्रस्यैवं वचः श्रुत्वा जगामादर्शनं शनैः
मूलजालकविप्रेण पृष्टः प्राहामरावतीम्
शक्रस्यावसरे वृत्ते व्रजन्त्याः स्वगृहं मया
विद्यया कलया चापि पौरुषेण व्रतेन च
ब्राह्मणस्तमथोवाच मुग्धा दग्धाग्निसंभवा
तस्यैतद्वचनं श्रुत्वा स सिद्धः सुविशुद्धधीः
कदाचिच्च रता तेन स्वर्गमार्गं यदृच्छया
मूलजालैर्वर्तयंतं महाकालवनाश्रयम्
दर्शनादथ संभाषादुपकारात्सहासनात्
न दर्शनं न संभाषा कदाचित्सह तेन मे
इत्येवमुक्त्वा रंभोरू रंभा जंभारिणोंतिकम्
गत्वा निवेदयामास स्नेहव्रतविचेष्टितम्
शक्रः प्रोवाच चार्वंगीं गीर्वाणहृदयंगमाम्
दिव्यमाल्यांबरधरं दिव्यस्रगुनुलेपनम्
तत्रस्थः स द्विजो भोगीविभुनक्ति सह रंभया
राज्यश्रियं जगति सर्वजनोपभोग्यामाप्नोति शक्रशिवकेशवयोर्निवासम्
तिलकव्रतवर्णनम् दुर्गासूर्याग्निसोमानां व्रतानि मधुसूदन
शास्त्रांतरेषु दृष्टानि तव बुद्धिगतानि च
प्रतिपत्क्रमयोगेन विहिता यस्य या तिथिः
शुक्ला तस्यां प्रकुर्वीत स्नानं नियमतत्परः
नारी नरो वा राजेन्द्र संतर्प्य पितृदेवताः
पिष्टातकेन विलिखेद्वत्सरं पुरुषाकृतिम्
दीपैश्चापि सनैवेद्यैः पूजयेद्वत्सरं तदा पूजयेद्ब्राह्मणान्विद्वान्मंत्रैर्वेदोदितैः शुभैः
संवत्सरोऽसि परिवत्सरोसीडा वत्सरोऽभित्सरोऽसि उषसस्ते कल्पंतामहोरात्रास्ते कल्पंतामर्धमासस्ते कल्पतां मासास्ते कल्पतामृतवस्ते कल्पन्तां संवत्सरस्ते कल्पताम्
एवमभ्यर्च्य वासोभिः पश्चात्तमभिवेष्टयेत्
ततस्तं प्रार्थयेत्पश्चात्पुरः स्थित्वा कृतांजलिः 4.8.
एवमुक्त्वा यथाशक्ति दद्याद्विप्राय दक्षिणाम्
ततः प्रभृत्यनुदिनं तिलकालंकृतं मुखम्