ज्ञायते नेह नामुत्र व्रतस्वाध्यायवर्जितः
अत्र ते कथयिष्यामि इतिहासं पुरातनम्
योगर्द्धिसिद्ध्या संसिद्धः कश्चित्सिद्धो महीतलम्
निगीर्णदंतो लंबोष्ठः पिंगाक्षस्तनुमूर्द्धजः
चिपिटाक्षः स्फुटितपाज्जंघाढ्यः कृशकूर्परः
मूलजालिकविप्रेण दृष्टः पृष्टश्च को भवान्
कच्चिद्दृष्टा त्वया रंभा भाभासितदिगंतरा
गत्वा मद्वचनाद्वाच्या निर्वाच्या दोषदर्शिभिः
सिद्धः प्रसिद्धं तं विप्रं प्राहेदं विस्मयान्वितः
ब्राह्मणस्तमथोवाच विज्ञातोऽसि मया यथा
गात्रत्रयं विरूपं स्याद्द्वितीयं वा स्वरूपतः
दुर्ल्लंघ्या प्रकृतिः साक्षादनुभूतकरी भवेत्
विप्रस्यैवं वचः श्रुत्वा जगामादर्शनं शनैः
मूलजालकविप्रेण पृष्टः प्राहामरावतीम्
शक्रस्यावसरे वृत्ते व्रजन्त्याः स्वगृहं मया
विद्यया कलया चापि पौरुषेण व्रतेन च
ब्राह्मणस्तमथोवाच मुग्धा दग्धाग्निसंभवा
तस्यैतद्वचनं श्रुत्वा स सिद्धः सुविशुद्धधीः
कदाचिच्च रता तेन स्वर्गमार्गं यदृच्छया
मूलजालैर्वर्तयंतं महाकालवनाश्रयम्
दर्शनादथ संभाषादुपकारात्सहासनात्
न दर्शनं न संभाषा कदाचित्सह तेन मे
इत्येवमुक्त्वा रंभोरू रंभा जंभारिणोंतिकम्
गत्वा निवेदयामास स्नेहव्रतविचेष्टितम्
शक्रः प्रोवाच चार्वंगीं गीर्वाणहृदयंगमाम्
दिव्यमाल्यांबरधरं दिव्यस्रगुनुलेपनम्
तत्रस्थः स द्विजो भोगीविभुनक्ति सह रंभया
राज्यश्रियं जगति सर्वजनोपभोग्यामाप्नोति शक्रशिवकेशवयोर्निवासम्
तिलकव्रतवर्णनम् दुर्गासूर्याग्निसोमानां व्रतानि मधुसूदन
शास्त्रांतरेषु दृष्टानि तव बुद्धिगतानि च