अमात्यतनयो विप्रस्त्रीरूपं प्रति मोहितः
मन्त्री स्नेहाच्च बहुधा सञ्चित्य हृदि पंडितैः 3.2.14.
साह भोमात्यतनय त्रिमासं तीर्थमण्डले
तथा मत्वा मंत्रिसुतो नम्रात्मा मदनालसः
भूपकांतिं कामवशां चालिलिंग स कामुकः
सुदेवो मानुषो भूत्वा मूलदेवगृहं ययौ
मूलदेवः प्रसन्नात्मा शशिनं नाम मित्रकम्
राज्ञे निवेद्य तत्सर्वं वधूं मे देहि भूपते
मन्त्री राजकरो नाम तत्पुत्रो मदनालसः
स्वपुत्रस्य वियोगेन स मन्त्री च तथेदृशः
यथा प्रसन्नो हि भवान्कुरु त्वं च तथाविधम्
देहि भूप सुतां मह्यं तत्पुत्रस्य सुरताय वै 3.2.14.
दत्त्वा च वेदविधिना बहुधा द्रव्यसंयुताम्
शशी तु भूपतेः कन्यां गृहीत्वा स्वगृहं ययौ
मदीयेयं नृपसुता भोगपत्नी महोत्तमा
इत्युक्त्वा नृपतिं प्राह वैतालो रुद्रकिंकरः
राजोवाच पितामात्राज्ञया पुत्री देवानां सन्मुखे स्थिता
शास्त्रेषु कथितं देव स्त्रीरत्नं सर्वदैव हि
तत्क्षेत्रं कृषिकारस्य बीजदातुर्न चैव ह
सुदेवस्य वै तनयो योग्यत्वं हि गमिष्यति
इति ते कथितं देव यथाशास्त्रेषु भाषितम्
इति श्रुत्वा स होवाच स पुत्रो मदनालसः 3.2.14.
स स्नात्वा बहुला ष्टम्यां तत्पुण्येन नृपोत्तम
स्मृत्वा स हृदि गोविंदं तुष्टाव श्लक्ष्णया गिरा
त्वयैकेन लीलार्थतो देवदेव प्रियाराधया सार्द्धमेतद्धि गुप्तम्
जगत्यन्तकाले त्वया कालमूर्त्या जगत्संहृतं वै नमस्तेनमस्ते
इति स्तोत्रप्रभावेन देवदेवेन मोचिता
रमणीं स्वां समालिंग्य ननन्द मुदितो नृप सुदेवं स समाहूय स्वां स्वसारं ददौ मुदा
सुदेवस्तस्य भगिनीं क्षत्रियस्य मदातुराम्
इति ते कथितं भूप चरित्रं तस्य धीमतः