कथं ते पापनिरता नरा रात्रिषु शेरते
एवं क्लिष्टविशुद्धाश्च सावशेषेण कर्मणा स्थावरा विविधाकारास्तृणगुल्मादिभेदतः
तत्रानुभूय दुःखानि जायंते कीटयोनिषु
संश्लिष्टाः पक्षिभावेन भवंति मृगजादिषु
क्रमाद्गोयोनिमासाद्य जायन्ते मानवाः पुनः कालांतरवशाद्यांति मानुष्यमतिदुर्लभम्
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगोचरात्
मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसाधकम्
देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम् 4.6.
स्वर्गापवर्गलाभाय यदि नास्ति समुद्यतः
धर्ममूलेन मानुष्यं लब्ध्वा सर्वार्थसाधकम्
मनुष्यत्वे च विप्रत्वं यः संप्राप्यातिदुर्ल्लभम्
सर्वेषामेव देशानां मध्यदेशः परः स्मृतः
एतस्मिन्भारते पुण्ये प्राप्य मानुष्यमध्रुवम् यः कुर्यान्नात्मनः श्रेयस्तेनात्मा वंचितः स्वयम्
भोगभूमिः स्मृतः स्वर्गः कर्मभूमिरियं मता
यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचर
अध्रुवेण शरीरेण ह्यध्रुवं यः प्रसाधयेत्
आयुषः खंडखडानि निपतंति तवा ग्रतः
यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति 4.6.
परित्यज्य यदा सर्वमेकाकी यास्यसि धुवम्
गृहीतदानपाथेया सुखं यांति महाध्वनि
येषां द्विजेन्द्रवाहित्री पूर्णभांडा तु गच्छति
इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ।। पुण्येन याति देवत्वमपुण्यान्नरकं व्रजेत्
ये मनागपि देवेशं प्रपन्नाः शरणं शिवम्
किं तु पापैर्महाघोरैः किञ्चित्कालं शिवाज्ञया
ये पुनः सर्वभावेन प्रतिपन्ना महेश्वरम्
तस्मा द्विवर्धयेद्भक्तिमीश्वरे सततं बुधः
पापानि पंच परमार्थतयैव पार्थ दुःखप्रदानि सुचिरं पितृ राजलोके
शकटव्रतमाहात्म्यवर्णनम् व्रतोपवासनियमप्लवेनोत्तीर्यते सुखम्
दुर्ल्लभं प्राप्य मानुष्यं विद्युत्पतनचञ्चलम्
दान व्रतमयी कीर्तिर्यस्य स्यादिह देहिनः