महाघोराभिघोराख्या कालाग्निसदृशोपमाः
ततस्तेनात्र कथिताः पापा गच्छंति तान्स्वयम्
एकाकी दह्यते तेन न च पश्यति तानि सः
तत्किमन्योपघातार्थं मूढ पापं कृतं त्वया
कियंतं केन पापेन कालमत्रायते नरः पापात्सर्वेषु पच्यंते नरकेष्वामहाक्षयात्
महापातकिनश्चापि सर्वेषु नरकेष्विह
महापातकिनश्चान्ये नरकार्णवकोटिषु
उपपातकिनश्चापि तदर्थं यांति मानवाः 4.6.
तस्मात्पापं न कुर्वीत चंचले जीविते सति
यः करोति नरः पापं तस्यात्मा ध्रुवमप्रियः
कथं ते पापनिरता नरा रात्रिषु शेरते
एवं क्लिष्टविशुद्धाश्च सावशेषेण कर्मणा स्थावरा विविधाकारास्तृणगुल्मादिभेदतः
तत्रानुभूय दुःखानि जायंते कीटयोनिषु
संश्लिष्टाः पक्षिभावेन भवंति मृगजादिषु
क्रमाद्गोयोनिमासाद्य जायन्ते मानवाः पुनः कालांतरवशाद्यांति मानुष्यमतिदुर्लभम्
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगोचरात्
मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसाधकम्
देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम् 4.6.
स्वर्गापवर्गलाभाय यदि नास्ति समुद्यतः
धर्ममूलेन मानुष्यं लब्ध्वा सर्वार्थसाधकम्
मनुष्यत्वे च विप्रत्वं यः संप्राप्यातिदुर्ल्लभम्
सर्वेषामेव देशानां मध्यदेशः परः स्मृतः
एतस्मिन्भारते पुण्ये प्राप्य मानुष्यमध्रुवम् यः कुर्यान्नात्मनः श्रेयस्तेनात्मा वंचितः स्वयम्
भोगभूमिः स्मृतः स्वर्गः कर्मभूमिरियं मता
यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचर
अध्रुवेण शरीरेण ह्यध्रुवं यः प्रसाधयेत्
आयुषः खंडखडानि निपतंति तवा ग्रतः
यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति 4.6.
परित्यज्य यदा सर्वमेकाकी यास्यसि धुवम्
गृहीतदानपाथेया सुखं यांति महाध्वनि