क्षारताम्रादिभिर्दीप्तैर्दह्यंते बहुशः पुनः
भवंति बहुशः कष्टाः पाणिपादसमुद्भवाः
समुत्सृजंति ये पापाः पुरीषं मूत्रमेव वा
सूचीभिरग्निवर्णाभिस्ततश्चापूर्यते पुनः आखन्यते गुदे तेषां यावन्मूर्ध्नि विनिर्गतः
ततः क्षारेण महता ताम्रेण त्रपुणा पुनः
मनः सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्त्तकम्
धने सत्यपि ये दानं न प्रयच्छंति तृष्णया
ते लोहतोरणे बद्धा हस्तपादावताडिताः 4.6.
हस्तपादललाटेषु कीलिता लोहशंकुभिः
कृमिभिः प्राणिभिश्चोग्रैर्लोहदंडैश्च वायसैः
आपीड्यंते जिह्वामूले निबध्य शृंखलाः पुनः
स्निग्धे च वृषणे नद्धे लोहभारद्वयं पुनः
ततः स्वमांसमुत्कृत्य तिलमात्रप्रमाणतः
यदा निर्मांसतां प्राप्ताः कालेन महता पुनः
सिच्यंते वर्षधाराभिः शोष्यंते वायुना पुनः
पश्चात्ते वह्निना भूयो दूरस्थेन शनैः शनैः
भृशं बुभुक्षया पीडा मूर्च्छयातिपिपासया
एवमादिमहाघोरा यातनाः पापकारिणः 4.6.
प्रत्येकं यातनाश्चित्राः सर्वेषु नरकेषु च
एते च विविधैर्घोरैर्यात्यमानाश्च कर्मभिः
महाघोराभिघोराख्या कालाग्निसदृशोपमाः
ततस्तेनात्र कथिताः पापा गच्छंति तान्स्वयम्
एकाकी दह्यते तेन न च पश्यति तानि सः
तत्किमन्योपघातार्थं मूढ पापं कृतं त्वया
कियंतं केन पापेन कालमत्रायते नरः पापात्सर्वेषु पच्यंते नरकेष्वामहाक्षयात्
महापातकिनश्चापि सर्वेषु नरकेष्विह
महापातकिनश्चान्ये नरकार्णवकोटिषु
उपपातकिनश्चापि तदर्थं यांति मानवाः 4.6.
तस्मात्पापं न कुर्वीत चंचले जीविते सति
यः करोति नरः पापं तस्यात्मा ध्रुवमप्रियः