सुतप्तवज्रलेपेन शरीरमनुलिप्यते
वदनांते प्रविन्यस्तं सुतप्तायोमयं गुडम्
ये शिवायतनारामवापीकूपमठांग णात्
व्यायामोद्वर्तनाभ्यंगस्नानमापानभोजनम्
ते बाधैर्विविधैर्घोरैरिक्षुयन्त्रादिपीडनैः
ये शृण्वंति गुरोर्निंदां तेषां कर्णः प्रपूर्य्यते
त्रपुसीसारकूटाद्यैः क्षारेण जतुना पुनः अनुक्रमेण सर्वेषु भवंत्येताः समंततः
सर्वेंद्रियाणामप्येवं क्रमात्पापेन यातनाः 4.6.
स्पर्शलोभेन ये मूढाः संस्पृशंति परस्त्रियम्
ततः क्षारादिभिः सर्वैः शरीरमनुलिप्यते
गुरोः कुर्वंति भ्रुकुटिं क्रूरं चक्षुश्च ये नराः
सूचीभिरग्निवर्णाभिस्तेषां नेत्रं प्रपूर्यते
लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं प्रपूर्यते
ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमात्
ये शिवारामपुष्पाणि लोभात्संगृह्य पाणिना
नासिका चातिबहुशस्ततः क्षारादिभिः पुनः
ये निंदंति महात्मानमाचार्यं धर्मदेशिकम्
तेषामुरसि कंठे च जिह्वायां दंतसंधिषु 4.6.
अग्निवर्णाः सुतप्ताश्च त्रिशिखा लोहशंकवः
ततः क्षारेण तप्तेन ताम्रेण त्रपुणा पुनः
क्षारताम्रादिभिर्दीप्तैर्दह्यंते बहुशः पुनः
भवंति बहुशः कष्टाः पाणिपादसमुद्भवाः
समुत्सृजंति ये पापाः पुरीषं मूत्रमेव वा
सूचीभिरग्निवर्णाभिस्ततश्चापूर्यते पुनः आखन्यते गुदे तेषां यावन्मूर्ध्नि विनिर्गतः
ततः क्षारेण महता ताम्रेण त्रपुणा पुनः
मनः सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्त्तकम्
धने सत्यपि ये दानं न प्रयच्छंति तृष्णया
ते लोहतोरणे बद्धा हस्तपादावताडिताः 4.6.
हस्तपादललाटेषु कीलिता लोहशंकुभिः
कृमिभिः प्राणिभिश्चोग्रैर्लोहदंडैश्च वायसैः