पच्यंते मांसवच्चापि प्रदीप्तांगारराशिषु
तिलपिंडैरिवाक्रम्य घोरैः कर्मभिरात्मनः
भिद्यंते चापि तल्पेषु लोहभ्राष्ट्रेष्वनेकधा
मिथ्यागमप्रवक्तुश्च द्विजिह्वस्य च निर्गता
निर्भर्त्सयंति ये क्रूरा मातरं पितरं गुरुम्
ततः क्षारेण दीप्तेन ताम्रेण तु पुनःपुनः
इतस्ततः पुनर्वक्त्रं भृशमापूर्य हन्यते
परिष्वजति चात्युग्रां प्रदीप्तां लोहशाल्मलीम् 4.6.
दंतुरेणातिकूटेन क्रकचेन बलीयसा खाद्यते स्वानि मांसानि पायते शोणितं स्वकम्
अन्नं पानं न दत्तं यैर्मूढैर्नाप्यनुमोदितम्
असितालवने घोरे च्छिद्यंते खंडखंडशः संबाध्यमाना विवशाः क्लिश्यंते न म्रियंति वै
देहादुत्साद्यमांसानि भिद्यंतेऽस्थीनि मुद्गरैः
निरस्तास्ते निरुच्छ्वासास्तिष्ठंति नरके ध्रुवम्
रौरवे रोदमानाश्च पीड्यन्ते विविधैः शरैः
पदोरास्ये गुदे चैव पार्श्वे चोरसि मस्तके
सुतप्तवालुकायां च प्रलुठ्यन्ते पुनःपुनः
तेनतेनैव रूपेण हसन्ते पारदारिकम्
पूर्वाकारं च पुरुषं प्रज्वलंतं समंततः 4.6.
किं प्रधावसि वेगेन ते न मोक्षोऽस्ति सांप्रतम्
लोहकुम्भे तथा क्षिप्ताः सविधानैः शनैःशनैः
क्वणंत्युदूखले सास्राः प्रक्षिप्यंते शिलासु च
कृमिभिर्भिन्नसर्वांगाः शतशो जर्जरीकृताः
महाज्वाले च नरके पापाः फूत्कारयंति च
पृष्ठे चानीय जंघे द्वे विन्यस्ते स्कन्धयोः स्थिते बद्ध्वा परस्परं सर्वं सुदृढं गाढरज्जुभि.
पीडयंति सुसंरब्धा भ्रमरास्तीक्ष्णलोहजाः
पापानां नरके पुंसां घृष्यते चंदनं यथा
पिंडबंधो स्मृतो याम्यो महाज्वालेषु यातनाः करीषरूक्षवह्नौ च पच्यंते न म्रियंति च
सुतीक्ष्णक्षारतोयेन शर्करासु शिलासु च 4.6.
शरीराभ्यन्तरगतैः प्रभूतैः कृमिभिर्नराः
कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु