असंख्याता महावीर्याः क्रूराश्चाञ्जनसंप्रभाः
अनेन परिवारेण महाघोरेण संवृतम् निर्भर्त्सयतं चात्यन्तं यमं सदुपकारिणम्
चित्रगुप्तश्च भगवान्धर्मवाक्यैः प्रबोधयन् ।। भोभो दुष्कृतकर्माणः परद्रव्यापहारिणः । गर्विता रूपवीर्येण परदारविमर्दकाः
यत्स्वयं क्रियते कर्म तत्स्वयं भुज्यते पुनः
इदानीं किं प्रतप्यध्वं पीड्यमानाः स्वकर्मभिः
एते च पृथिवीपालाः संप्राप्ता मत्समीपतः
भोभो नृपा दुराचाराः प्रजाविध्वंसकारिणः
राज्यलोभेन मोहाद्वा बलादन्यायतः प्रजाः
कृतं राज्यं कलत्रं च यदर्थमशुभं कृतम् 4.6.
पश्याम तद्बलं तुभ्यं येन विध्वंसिताः प्रजाः
एवं बहुविधैर्वाक्यैरुपालब्धा यमेन ते
इति धर्मं समादिश्य नृपाणां धर्मराट् पुनः
भोभोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान्
ततः शीघ्रं समुत्थाय नृपान्संगृह्य पादयोः
सर्वप्राणेन महता सुतप्ते तु शिलातले
ततः स रक्तस्रोतोभिः स्रवते जर्जरीकृतः
ततः स वायुना स्पृष्टः शनैरुजीवते पुनः
अष्टाविंशतिरेवाधः क्षितेर्नरककोटयः
रौरवप्रभृतीनां च नरकाणां शतं स्मृतम् 4.6.
येषु पापाः प्रपच्यंते नराः कर्मानुरूपतः
आ मलप्रक्षयाद्यद्वदग्नौ धास्यंति धातवः
सुगाढहस्तया बाढं तप्तशृंखलया नराः
ततस्ते सर्पयंत्रेण क्षिप्ता दोल्यंति किंकरैः
अंतरिक्षस्थितानां च लोहभारशतं ततः
तेन भारेण महता भृशमातर्द्दिता नराः
ज्वालाभिरग्निवर्णाभिर्ल्लोहदंडैः सकंटकैः
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः
पुनर्विदार्य चांगेषु शिरसःप्रभृति क्रमात्
विष्ठापूर्णे ततः कूपे कृमीणां निचये ततः 4.6.
भक्ष्यंते क्रिमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः