छिन्नाग्रपादहस्ताश्च छिन्नकर्णौष्ठनासिकाः
प्रतुद्यमानाः कुंतैश्च सायकैश्च ततस्ततः
मुद्गरैर्ल्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः
भिंदिपालैर्विभिद्यंते स्रवंतः पूयशोणितम्
याचमानाश्च सलिलमन्नं चापि बुभुक्षिताः
दानहीनाः प्रयांत्येवं यावंतो विमुखा नराः
एवं पथातिकष्टेन प्राप्ता यमपुरं तदा
तत्र ये शुभकर्माणस्तांश्च संमानयेद्यमः
धन्या यूयं महात्मान आत्मनो हितकारिणः 4.6.
इदं विमानमारुह्य दिव्यस्त्रीभोगभूषितम्
ततो भुक्त्वा महाभोगानंते पुण्यस्य संक्षयात्
ते चापि धर्मराजानं नराः पुण्यानुभावतः
ये पुनः पापकर्माणस्ते पश्यंति भयानकम्
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्
अष्टादशभुजं क्रुद्धं नीलांजनचयोपमम्
महामहिषमारूढं दीप्ताग्निसमलोचनम्
प्रलयांबुदनिर्घोषं पिबंतमिव सागरम्
मृत्युश्च तत्समीपस्थः कालानलसमप्रभः
मारी चोग्रा महामारी कालरात्रिः सुदारुणा 4.6.
शक्तिशूलांकुशधराः पाशचक्रासिधारिणः
असंख्याता महावीर्याः क्रूराश्चाञ्जनसंप्रभाः
अनेन परिवारेण महाघोरेण संवृतम् निर्भर्त्सयतं चात्यन्तं यमं सदुपकारिणम्
चित्रगुप्तश्च भगवान्धर्मवाक्यैः प्रबोधयन् ।। भोभो दुष्कृतकर्माणः परद्रव्यापहारिणः । गर्विता रूपवीर्येण परदारविमर्दकाः
यत्स्वयं क्रियते कर्म तत्स्वयं भुज्यते पुनः
इदानीं किं प्रतप्यध्वं पीड्यमानाः स्वकर्मभिः
एते च पृथिवीपालाः संप्राप्ता मत्समीपतः
भोभो नृपा दुराचाराः प्रजाविध्वंसकारिणः
राज्यलोभेन मोहाद्वा बलादन्यायतः प्रजाः
कृतं राज्यं कलत्रं च यदर्थमशुभं कृतम् 4.6.
पश्याम तद्बलं तुभ्यं येन विध्वंसिताः प्रजाः